विहाय शान्तिं नृप धाम तत्पुनः
प्रसीद संधेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः
शमेन सिद्धिं मुनयो न भूभृतः ॥

सारांश AI हे राजन! शांति को त्यागकर शत्रुओं के नाश के लिए पुनः तेज धारण करें। शांति से सिद्धि मुनि प्राप्त करते हैं, राजा नहीं।
घण्टापथव्याख्या (मल्लिनाथः) विहायेति ॥ हे नृप, शान्तिं विहाय तत्प्रसिद्धं धाम तेजो विद्विषां वधाय पुनः संधेह्यङ्गीकुरु प्रसीद । प्रार्थनायां लोट्। ननु शमेन कार्यसिद्धौ किं क्रोधेनेत्यत्राहव्रजन्तीति । निःस्पृहा मुनयः शत्रूनवधूय निर्जित्य शमेन क्रोधवर्जनेन सिद्धिं व्रजन्ति । भूभृतस्तु न । कैवल्यकार्यवद्राजकार्यं न शान्तिसाध्यमित्यर्थः ॥ ।
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि हा शा न्तिं नृ धा त्पु नः
प्र सी सं धे हि धा वि द्वि षाम्
व्र न्ति त्रू धू निः स्पृ हाः
मे सि द्धिं मु यो भू भृ तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.