द्विषन्निमित्ता यदियं दशा ततः
समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासितवीर्यसम्पदां
पराभवोऽप्युत्सव एव मानिनाम् ॥

सारांश AI शत्रुओं के कारण हुई यह दुर्दशा मेरे मन को व्यथित कर रही है। जिन स्वाभिमानियों का पराक्रम शत्रुओं द्वारा दबाया न जा सके, उनके लिए हार भी उत्सव के समान है।
घण्टापथव्याख्या (मल्लिनाथः) द्विषदिति ॥ यद्यतः कारणादियं दशावस्था।दशा वर्ताववस्थायाम् इति विश्वः । द्विषन्तो निमित्तं यस्याः सा । द्विषोऽमित्रे (अष्टाध्यायी ३.२.१३१ ) इति शतृप्रत्ययः । अतो मे मनः समूलं साशयमुन्मूलयतीवोत्पाटयतीव । दैविकी त्वापन्न दुःखायेत्याह-परैरिति । परै:, शत्रुभिरपर्यासितापर्यावर्तिता वीर्यसंपद्येषां तेषां मानिनां पराभवो विपदप्युत्सव । एवेति वैधर्म्येणार्थान्तरन्यासः । मानहानिर्दुःसहा, न त्वपिदिति भावः ॥ विहाय शान्तिं नृप धाम तत्पुनः प्रसीद संधेहि वधाय विद्विषाम् । व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्वि न्नि मि त्ता दि यं शा तः
मू मु न्मू ती मे नः
रै र्या सि वी र्य म्प दां
रा वो ऽप्यु त्स मा नि नाम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.