द्विषां विघाताय विधातुमिच्छतो
रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्यविशेषशालिनीं
विनिश्चितार्थामिति वाचमादधे ॥

अन्वयः AI सः द्विषां विघाताय विधातुम् इच्छतः भूभृतः रहसि अनुज्ञाम् अधिगम्य, सौष्ठव-औदार्य-विशेष-शालिनीम् विनिश्चित-अर्थाम् इति वाचं आदधे।
English Summary AI Having obtained permission in private from the king (Yudhishthira), who was desirous of planning the destruction of his enemies, he (the spy) began to speak these words, which were distinguished by their excellence of expression and depth of meaning, and whose import was well-ascertained.
सारांश AI शत्रुओं के विनाश की योजना बनाने के इच्छुक राजा युधिष्ठिर की एकांत में अनुमति पाकर उस वनेचर ने शब्द-सौष्ठव और अर्थ-गांभीर्य से युक्त सुनिश्चित वाणी में अपनी बात कही।
घण्टापथव्याख्या (मल्लिनाथः) द्विषामिति ॥ रहस्येकान्ते स वनेचरो द्विषां शत्रूणाम् । कर्मणि षष्ठी। विघाताय। विहन्तुमित्यर्थः । तुमर्थाच्च भाववचनात् (अष्टाध्यायी २.३.१५ ) इति चतुर्थी । भाववचनाश्च (अष्टाध्यायी ३.३.११ ) इति तुमर्थे घञ्प्रत्ययः । अत्र तादर्थ्यमपि न दोषः । तथापि प्रयोगवैचित्रीविशेषस्याप्यलंकारत्वादेवं व्याचक्षते । विधातुं व्यापारं कर्तुमिच्छतः। समानकर्तृकेषु तुमुन् (अष्टाध्यायी ३.३.१५८ ) । द्विषो विहन्तुमुद्युक्तज्ञानस्येत्यर्थः । अतएव भूभृतो युधिष्ठिरस्यानुज्ञामधिगम्य । सुष्टु भावः सौष्ठवं शब्दसामर्थ्यम् । सुष्ठुशब्दादव्ययादुद्गात्रादित्वाञ्प्रत्ययः । उदारस्य भाव औदार्यमर्थसंपत्तिः । तयोर्द्वन्द्व: सौष्ठवौदार्ये । अत्रौदार्यशब्दस्याजाद्यन्दत्वेऽपि लक्षणहेत्वोः क्रियायाः (अष्टाध्यायी ३.२.१२६ ) इत्यत्राल्पस्वरस्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकृतैव पूर्वनिपातस्यानित्यत्वज्ञापनात्रं पूर्वनिपातः । उक्तं च काशिकायाम्—अयमेव लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम् इति । त एव-विशेषः । तयोर्वा विशेषः । तेन शालते शोभत इति सौष्ठवौदार्यविशेषशालिनी ताम्। ताच्छील्ये णिनिः ।विनिश्चितार्थं विशेषतः प्रमाणतो निर्णीतार्थामिति वक्ष्यमाणरूपां वाचमाददे स्वीकृतवान् । उवाचेत्यर्थः ॥ प्रथमं तावदप्रियनिवेदकमात्मानं प्रत्यक्षोभं याचते
पदच्छेदः AI
द्विषाम्द्विष् (६.३) of the enemies
विघातायविघात (४.१) for the destruction
विधातुम्विधातुम् (वि√धा+तुमुन्) to plan
इच्छतःइच्छत् (√इष्+शतृ, ६.१) of him who was wishing
रहसिरहस् (७.१) in private
अनुज्ञाम्अनुज्ञा (२.१) permission
अधिगम्यअधिगम्य (अधि√गम्+ल्यप्) having obtained
भूभृतःभूभृत् (६.१) from the king
सःतद् (१.१) he
सौष्ठवौदार्यविशेषशालिनीम्सौष्ठवऔदार्यविशेषशालिन् (२.१) distinguished by excellence of expression and depth of meaning
विनिश्चितार्थाम्विनिश्चित (वि+निस्√चि+क्त)अर्थ–विनिश्चितार्था (२.१) whose meaning was well-ascertained
इतिइति thus
वाचम्वाच् (२.१) speech
आदधेआदधे (आ√धा कर्तरि लिट् (आत्मने.) प्र.पु. एक.) began
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
द्वि षां वि घा ता वि धा तु मि च्छ तो
स्य नु ज्ञा धि म्य भू भृ तः
सौ ष्ठ वौ दा र्य वि शे शा लि नीं
वि नि श्चि ता र्था मि ति वा मा धे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.