पुराधिरूढः शयनं महाधनं
विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थलीं
जहासि निद्रामशिवैः शिवारुतैः ॥

सारांश AI जो आप पहले स्तुति-पाठकों के मंगल गीतों से सुखद शय्या पर जागते थे, वे ही अब कुशों वाली कठोर भूमि पर सोकर गीदड़ों के अमंगलकारी स्वर से जागने को विवश हैं।
घण्टापथव्याख्या (मल्लिनाथः) पुरेति यस्त्वं महाधनं बहुमूल्यं श्रेष्ठम् । 'महाधनं महामूल्ये' इति विश्वः । शयनं शय्यमधिरूढः सन् । स्तुतयो गीतयश्च ता एव मङ्गलानि तैः करणभूतैः पुरा विबोध्यसे । वैतालिकैरिति शेषः । पूर्वं बोधित इत्यर्थः। ‘पुरि लुङ्चास्मे' इति भूतार्थे लट् । स त्वमदभ्रदर्भी बहुकुशाम् । ‘अस्त्री कुशं कुथो दर्भः' इति । अदभ्रं बहुलं बहु' इति चामरः । स्थलीमकृत्रिमर्भूमिम्,जानपद्-' इत्यादिनाकृत्रिमार्थे ङीप् । एतेन दुःसहस्पर्शत्वमुक्तम्। 'अधिशीङ्स्यासां कर्म' इति कर्मत्वम् । अधिशय्य शयित्वा । 'अयङियक्ङिति' इत्ययङादेशः । अशिवैरमङ्गलैः शिवारुतैः क्रोष्टुवासितैः । ‘शिव हरीतकी क्रोष्टा शमी नद्यमलक्युभे' इति वैजयन्ती । निद्रां जहासि । अद्येति शेषः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पु रा धि रू ढः नं हा नं
वि बो ध्य से यः स्तु ति गी ति ङ्ग लैः
भ्र र्भा धि य्य स्थ लीं
हा सि नि द्रा शि वैः शि वा रु तैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.