Loading data... On slow networks this could take a few minutes.
100%

इमामहं वेद न तावकीं धियं
विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां
रुजन्ति चेतः प्रसभं ममाधयः ॥

सारांश AI मैं आपकी इस शांत बुद्धि को समझ पाने में असमर्थ हूँ; वास्तव में चित्तवृत्तियाँ अत्यंत विचित्र होती हैं। आपकी विपत्तियों के विचार मात्र से मेरा हृदय अत्यंत व्यथित हो रहा है।
घण्टापथव्याख्या (मल्लिनाथः) इमामिति ॥ इमां वर्तमानाम् । तवेमां तावकीं त्वदीयाम् । तस्येदम् (अष्टाध्यायी ४.३.१२० ) इत्यण्प्रत्यय:। तवकममकावेकवचने (अष्टाध्यायी ४.३.३ ) इति तावकादेशः धियं त्वदापद्विषयां चित्तवृत्तिमहं न वेद कीदृशी वा न वेद्मि । परबुद्धेरप्रत्यक्षत्वादिति भावः ।विदो लटो वा (अष्टाध्यायी ३.४.८३ ) 'इति लटो णलादेशः । न चात्मदृष्टान्तेनापन्नत्वाद्दुःखित्वमनुमातुं शक्यते । धीरादिष्वनैकान्तिकत्वादित्याशयेनाह—चित्तवृत्तयो विचित्ररूपा धीराधीराद्यनेकप्रकाराः खलु । किंतु परामुत्कृष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतश्चित्तम् । आधयो मनोव्यथाः । उपसर्गे घोः किः (अष्टाध्यायी ३.३.९२ ) इति किप्रत्ययः । प्रसभं प्रसह्य रुजन्ति भजन्ति।'रुजो भङ्गे' इति धातोर्लट्। पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिरनुभवितारं त्वां न विकरोतीति महच्चित्रमित्यर्थः । चेत इति रुजार्थानां भाववचनानामज्वरेः (अष्टाध्यायी २.३.५४ ) इति षष्ठी न भवति । तत्र शेषाधिकाराच्छेषत्वस्य विवक्षितत्वादिति ॥ तदापदमेव श्लोकत्रयेणाह
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
मा हं वे ता कीं धि यं
वि चि त्र रू पाः लु चि त्त वृ त्त यः
वि चि न्त न्त्या दा दं रां
रु न्ति चे तः प्र भं मा यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.