Loading data... On slow networks this could take a few minutes.
100%

पुरोपनीतं नृप रामणीयकं
द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं
परैति कार्श्यं यशसा समं वपुः ॥

सारांश AI ब्राह्मणों के भोजन के पश्चात बचे हुए श्रेष्ठ अन्न से पुष्ट आपका वह दिव्य शरीर अब केवल जंगली फल खाकर आपके यश के साथ-साथ क्षीण होता जा रहा है।
घण्टापथव्याख्या (मल्लिनाथः) पुरेति ॥ हे नृप, यदेतत्पुरोवर्ति वपुः पुरा द्विजातिशेषेण द्विजभुक्तावशिष्टेनान्धसान्नेन । भिस्सा स्त्री भक्तमन्धोऽन्नम् इत्यमरः (अमरकोशः २.९.४९ ) । रमणीयस्य भावो रामणीयकं मनोहरत्वमुपनीतं प्रापितम् । नयतेर्द्विकर्मकत्वात्प्रधाने कर्मणि क्तः । 'प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् । अद्य वन्यफलाशिनस्ते तव तद्वपुर्यशसा समपरमतिमात्रं कार्श्यं परैति प्राप्नोति। उभयमपि क्षीयत इत्यर्थः। अत्र सहोक्तिरलंकारः। तदुक्तं काव्यप्रकाशेः-‘सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्' इति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
पु रो नी तं नृ रा णी कं
द्वि जा ति शे षे दे न्ध सा
द्य ते न्य ला शि नः रं
रै ति का र्श्यं सा मं पुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.