विजित्य यः प्राज्यमयच्छदुत्तरा-
न्कुरूनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहर-
न्करोति मन्युं न कथं धनंजयः ॥

सारांश AI इंद्र के समान पराक्रमी अर्जुन, जिसने उत्तर कुरु प्रदेश को जीतकर अपार स्वर्ण भंडार जुटाया था, उसे आज वल्कल वस्त्र लाते देखकर क्या आपको क्रोध नहीं आता?
घण्टापथव्याख्या (मल्लिनाथः) विजित्येति ॥ वासव इन्द्र उपमा उपमानं यस्य स वासवोपम इन्द्रतुल्यो यो धनंजय: । उत्तरान्कुरून्मेरोरुत्तरान्मानुषान्देशविशेषान्विजित्य प्राज्यं प्रभूतम् ।प्रभूतं प्रचुरं प्राज्यम् इत्यमरः (अमरकोशः ३.१.६२ ) । कुप्यादन्यदकुप्यं हेमरूप्यात्मकम् । स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृतकृते । ताभ्यां यदन्यत्तत्कुप्यम् इत्यमरः (अमरकोशः २.९.९१ ) । वसु धनमयच्छद्दत्तवान् । पाघ्रा- इत्यादिना दाणो यच्छादेशः । स धनं जयतीति धनंजयोऽर्जुनः । संज्ञायां भृतृवृजि-इत्यादिना ख़च्प्रत्ययः। अरुर्द्विषत्- इत्यादिना मुमागमः । अधुनास्मिन्काले। अधुना (अष्टाध्यायी ५.३.१७ ) इति निपातनात्साधुः । तव वल्कवासाँस्याहरन्कथं तव मन्युं क्रोधं दुःखं वा न करोति ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वि जि त्य यः प्रा ज्य च्छ दु त्त रा
न्कु रू कु प्यं सु वा वो मः
ल्क वा सां सि वा धु ना
न्क रो ति न्युं थं नं यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.