Loading data... On slow networks this could take a few minutes.
100%

परिभ्रमंल्लोहितचन्दनोचितः
पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं
दुनोति ते कच्चिदयं वृकोदरः ॥

सारांश AI लाल चंदन के योग्य और सदा रथ पर चलने वाले भीम को धूल से धूसरित होकर पर्वतों में पैदल भटकते देखकर क्या आपके मन में तनिक भी पीड़ा नहीं होती?
घण्टापथव्याख्या (मल्लिनाथः) परिभ्रमन्निति ॥ लोहितचन्दनोचित उचितलोहितचन्दनः । ‘वाहितग्र्यादिषु-इति साधुः । अभ्यस्तरक्तचन्दन इत्यर्थः ।अभ्यस्तेत्युचितं न्याय्यम्इति यादवः । महारथो रथचारी । उभयत्रापि प्रागिति शेषः । अद्य तु रेणुरूषितो धुलिच्छुरितः । पादाभ्यामतति गच्छतीति पदातिः पादचारी ।अज्यतिभ्यां च इत्यनुवृत्तौ ‘पादे च इत्यौणादिक इण्प्रत्ययः । पादस्य पदाज्यातिगोपहतेषु (अष्टाध्यायी ६.३.५२ ) इति पदादेशः।अन्तर्गिरि गिरिष्वन्तः। विभक्त्यर्थेऽव्ययीभावः । गिरेश्च सेनकस्य (अष्टाध्यायी ५.४.११२ ) इति विकल्पात्समासान्ताभावः । परिभ्रमन्नयं वृकोदरो भीमः । सत्यधनस्येति सोल्लुण्ठनवचनम् । अद्यापि सत्यमेव रक्ष्यते, न तु भ्रातर इति भावः । तवेति शेषः । मानसं नो दुनोति।कच्चिन्न परितापयति । कञ्चित्कामप्रवेदने इत्यमरः । स्वाभिप्रायाविष्करणं कामप्रवेदनम् ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
रि भ्र मं ल्लो हि न्द नो चि तः
दा ति न्त र्गि रि रे णु रू षि तः
हा थः त्य स्य मा सं
दु नो ति ते च्चि यं वृ को रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.