Loading data... On slow networks this could take a few minutes.
100%

अवन्ध्यकोपस्य निहन्तुरापदां
भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरः ॥

सारांश AI सफल क्रोध वाले व्यक्ति के सभी प्राणी स्वयं ही वश में हो जाते हैं; परंतु क्रोधहीन व्यक्ति से न तो कोई मित्र के रूप में स्नेह करता है और न ही शत्रु के रूप में डरता है।
घण्टापथव्याख्या (मल्लिनाथः) अवन्ध्येति ॥ अवन्ध्यः कोपो यस्य तस्यावन्ध्यकोपस्यात एवापदा विहन्तुः । निग्रहा नुग्रहसमर्थस्येत्यर्थः । पुंस इति शेषः । देहिनो जन्तवः स्वयमेव वश्या वशंगता भवन्ति ।वशं गतः (अष्टाध्यायी ४.४.८६ ) इति यत्प्रत्ययः । अतस्त्वया कोपिना भवितव्यमित्यर्थः।व्यतिरेके त्वनिष्टमाचष्टे—अमर्षशून्येन निःकोपेन जन्तुना । कन्यया शोक इतिवत् ।हेतौः इति तृतीया। हृदयस्य कर्म हार्दं स्नेहः । प्रेम ना प्रियता हार्दं प्रेम स्नेह: इत्यमरः। युवादित्वादण् । हृदयस्य हृल्लेखपदण्लासेषुः इति हृदादेशः । जातहार्देन जातस्नेहेन सता जनस्यादरो न। विद्विषा द्विषता च सतादरो न । अमर्षहीनस्य रागद्वेषावकिम्चित्करत्वादगण्यावित्यर्थः । अथवा विद्विषा सता दरो भयं न । दरोऽस्त्रियां भये श्वभ्रे इत्यमरः (अमरकोशः ३.३.१९३ ) । एतस्मिन्नेव प्रयोगे संधिवशाद्विधा पदच्छेदः । पुंवाक्येषु न दोषः ॥ अतः स्थाने कोपः कार्यस्त्याज्यस्त्वस्थाने कोप इति भावः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
न्ध्य को स्य नि न्तु रा दां
न्ति श्याः स्व मे दे हि नः
र्ष शू न्ये स्य न्तु ना
जा हा र्दे वि द्वि षा रः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.