Loading data... On slow networks this could take a few minutes.
100%

भवन्तमेतर्हि मनस्विगर्हिते
विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः
शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥

सारांश AI मनस्वियों द्वारा निंदित इस दीन अवस्था में आपको देखकर आपका क्रोध वैसे क्यों नहीं प्रज्वलित होता, जैसे अग्नि सूखे हुए शमी वृक्ष को जलाकर भस्म कर देती है?
घण्टापथव्याख्या (मल्लिनाथः) भवन्तमिति ॥ हे नरदेव नरेन्द्र, एतर्हीदानिम्। अस्मिन्नापत्कालेऽपीत्यर्थः । एतर्हि संप्रतीदानीमधुना सांप्रतं तथा इत्यमरः (अमरकोशः ३.४.२३ ) इदमोर्हिल्’-इति र्हिल्प्रत्ययः ।एतेतौरथोःइत्येतादेशः। आपदमेवाह-मनस्विगर्हिते शूरजनजुगुप्सिते वर्त्मनि मार्गे विवर्तमानम्। शत्रुकृतां दुर्दशामनुभवन्तमित्यर्थः । भवन्तं त्वामुदीरित उद्दीपितो मन्युः क्रोधः। शुष्कं नीरसम्।शुषः,कः इति निष्ठातकारस्य ककारः । शमी चासौ तरुश्चेति विशेषणसमासः । तम् । शमीग्रहणं शीघ्रज्वलनस्वभावात्कृतम् । उच्छिख उद्गतज्वालः । ‘घृणिज्वाले अपि शिखे इत्यमरः । वह्निरिव । कथं न ज्वलयतिं । ज्वलयितुमुचितमित्यर्थः । मितां ह्रस्वः (अष्टाध्यायी ६.४.९२ ) इति ह्रस्वः ॥ नन्वन्तःशत्रुत्वादयं क्रोधस्त्याज्य एवेत्याशंक्याह—अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना नजातहार्देन न विद्विषादरः
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
न्त मे र्हि स्वि र्हि ते
वि र्त मा नं दे र्त्म नि
थं न्यु र्ज्व त्यु दी रि तः
मी रुं शु ष्क मि वा ग्नि रु च्छि खः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.