गुणानुरक्तामनुरक्तसाधनः
कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारये-
न्मनोरमामात्मवधूमिव श्रियम् ॥

सारांश AI अपनी उस राज्यलक्ष्मी को, जो एक कुलीन और पतिव्रता स्त्री के समान गुणों से युक्त है, आपके अतिरिक्त और कौन स्वाभिमानी राजा शत्रुओं के हाथों में जाने देता?
घण्टापथव्याख्या (मल्लिनाथः) गुणेति ॥ अनुरक्तसाधनोऽनुकूलसहायवान् । उक्तं च कामन्दकीये-उद्योगाद्निवृत्तस्य सुसहायस्य धीमतः । छायेवानुगता तस्य नित्यं श्रीः सहचारिणी ॥ इति। कुलाभिमानी क्षत्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोऽन्यः ।अन्यारात्- इत्यादिना पञ्चमी । क इव नराधिपो गुणैः संध्यादिभिः सौन्दर्यादिभिश्चानुरक्तामनुरागिणीं कुलजां कुलक्रमादागतां कुलीनां च मनोरमां श्रियामात्मवधूमिव स्वभार्यामिव । वधूर्जाया स्नुषा स्त्री च इत्यमरः (अमरकोशः ३.३.१०९ ) । परैः शत्रुभिरन्यैश्चापहारयेत् । स्वयमेवापहारं कारयेदित्यर्थः । कलत्रापहारवल्लक्ष्म्यपहारोऽपि राज्ञा मानहानिकरत्वादनुपेक्षणीय इति भावः ॥ अथ दशभिः कोपोद्दीपनं करोति
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
गु णा नु क्ता नु क्त सा नः
कु ला भि मा नी कु जां रा धि पः
रै स्त्व न्यः वा हा ये
न्म नो मा मा त्म धू मि श्रि यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.