Loading data... On slow networks this could take a few minutes.
100%

व्रजन्ति ते मूढधियः पराभवं
भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधा-
नसंवृताङ्गान्निशिता इवेषवः ॥

सारांश AI वे लोग पराजय को प्राप्त होते हैं जो कपटियों के साथ कपट का व्यवहार नहीं करते; धूर्त लोग सीधे-साधे व्यक्तियों के हृदय में प्रवेश कर तीखे बाणों की भाँति उन्हें नष्ट कर देते हैं।
घण्टापथव्याख्या (मल्लिनाथः) वजन्तीति ॥ मूढधियो निर्विवेकबुद्धयस्ते पराभवं व्रजन्ति ये मायाविषु माया——————————————————१. निम्नन्ति' इति पाठ: वत्सु विषये । 'अस्मायामेधा-' इत्यादिना विनिप्रत्ययः । मायिनो मायावन्तः । व्रीह्यादित्वादिनिप्रत्ययः । न भवन्ति । अत्रैवार्थान्तरं न्यस्यति–प्रविश्येति । शठा अपकारिणो धूर्तास्तथाविधानकुटिलानसंवृताङ्गानवर्मितशरीरान्निशिता इषव इव प्रविश्य प्रवेशं कृत्वात्मीया भूत्वा घ्नन्ति हि । 'आर्जवं हि कुटिलेषु न नीतिः' इति भावः ॥ न च लक्ष्मीचाञ्चल्यादयमनर्थागमः, किंतु स्वोपेक्षादोषमूलत्वादित्याशयेनाह
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
व्र न्ति ते मू धि यः रा वं
न्ति मा या वि षु ये मा यि नः
प्र वि श्य हि घ्न न्ति ठा स्त था वि धा
सं वृ ता ङ्गा न्नि शि ता वे वः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.