Loading data... On slow networks this could take a few minutes.
100%

भवादृशेषु प्रमदाजनोदितं
भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां
निरस्तनारीसमया दुराधयः ॥

सारांश AI आप जैसे विद्वानों को नारी द्वारा उपदेश दिया जाना अपमान के समान है, किंतु मेरी असहनीय मानसिक पीड़ाएं मुझे स्त्री-ोचित मर्यादा त्यागकर बोलने के लिए विवश कर रही हैं।
घण्टापथव्याख्या (मल्लिनाथः) भवादृशेष्विति ॥ भवाद्दशा भवद्विधाः । पण्डिता इत्यर्थः । तेषु विषये। त्यदादिषु- (अष्टाध्यायी ३.२.६० ) इत्यादिना कञ्।आ सर्वनाम्नः (अष्टाध्यायी ६.३.९१ ) इत्याकारादेशः। प्रमदाजनोदितं स्त्रीजनोक्तम् । वदेः क्तः। वचिस्वपि- (अष्टाध्यायी ६.१.१५ ) इत्यादिना संप्रसारणम् । अनुशासनं नियोगवचनमधिक्षेपस्तिरस्कार इव भवति । अतो न युक्तं वक्तुमित्यर्थः । तथापि वक्तुमनुचितत्वेऽपि निरस्तनारीसमयास्त्याजितशालीनतारूपस्त्रीसमाचाराः । समयाः, शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । दुराधयः समयोल्लङ्घनहेतुत्वाद्दुष्टा मनोव्यथाः ॥ पुंस्याधिर्मानसी व्यथा इत्यमरः (अमरकोशः १.७.३० ) । मां वक्तुं व्यवसाययन्ति प्रेरयन्ति । न किंचिदयुक्तं दुःखिनामिति भावः ॥
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
वा दृ शे षु प्र दा नो दि तं
त्य धि क्षे वा नु शा नम्
था पि क्तुं व्य सा न्ति मां
नि स्त ना री या दु रा यः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.