Loading data... On slow networks this could take a few minutes.
100%

कथाप्रसङ्गेन जनैरुदाहृता-
दनुस्मृताखण्डलसूनुविक्रमः ।
तवाभिधानाद्व्यथते नताननः
स दुःसहान्मन्त्रपदादिवोरगः ॥

अन्वयः AI सः कथा-प्रसङ्गेन जनैः उदाहृतात् तव अभिधानात् अनुस्मृत-आखण्डलसूनु-विक्रमः (सन्) नत-आननः (सन्) दुःसहात् मन्त्र-पदात् उरगः इव व्यथते।
English Summary AI When your name is mentioned by people in the course of conversation, he (Duryodhana) is reminded of the prowess of Arjuna (son of Indra). He becomes distressed and hangs his head, like a serpent tormented by an unbearable incantation.
सारांश AI बातचीत के दौरान जब कोई आपका नाम लेता है या अर्जुन के पराक्रम का स्मरण करता है, तो दुर्योधन असह्य मंत्र से पीड़ित सर्प की भाँति लज्जा से मुख नीचे कर व्यथित हो जाता है।
घण्टापथव्याख्या (मल्लिनाथः) कथेति ॥ कथाप्रसङ्गेन गोष्ठीवचनेन जनैः । अन्यत्र कथाप्रसङ्गेन विषवैद्येन। कथाप्रसङ्गो वार्तायां विषवैद्येऽपि वाच्यवत् इति विश्वः । एकवचनस्यातन्त्रत्वाज्जनविशेषणम् । उदाहृतादुच्चारितात्तवाभिधानान्नामधेयात्स्मारकाद्धेतोः । हेतौ (अष्टाध्यायी २.३.२३ ) इति पञ्चमी । आख्याह्वे अभिधानं च नामधेयं च नाम च इत्यमरः (अमरकोशः १.६.८ ) । अन्यत्र तवाभिधानात् । नामैकदेशग्रहणे नाममात्रग्रहणम् इति न्यायात्तश्च वश्च तवौ तार्क्ष्यवासुकी तयोरभिधानं यस्मिन्पदे तस्मात् । यद्वा कथाप्रसङ्ग इनाश्च ते जनाश्चेत्येकं पदम् । अनुस्मृताखण्डलसूनुविक्रमः स्मृतार्जुनपराक्रमः सन्दुःसहादतिदुःसहान्मन्त्रपदान्मन्त्रशब्दात्स्मारकाद्धेतोः । आखण्डलसूनुरिन्द्रानुजः । उपेन्द्रो विष्णुरिति यावत् । सूनुः पुत्रेऽनुजे रवौ इति विश्वः । तस्य विः पक्षी । गरुड़ इत्यर्थः । तस्य क्रमः पादविक्षेपः । सोऽनुस्मृतो येन स तथोक्तः स्मृतगरुड़महिमा उरग इव । नताननः सन् । व्यथते दुःखायते । पीडा बाधा व्यथा दुःखम् इत्यमरः (अमरकोशः १.९.३ ) । अत्युत्कटभयदोषादिर्विकारा दुर्वारा इति भावः । सर्वतो जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम् इति न्यायादर्जुनोत्कर्षकथनं युधिष्ठिरस्य भूषणमेवेति सर्वमवदातम् । निगमयति
पदच्छेदः AI
कथाप्रसङ्गेनकथाप्रसङ्ग (३.१) in the course of conversation
जनैःजन (३.३) by people
उदाहृतात्उदाहृत (उत्+आ√हृ+क्त, ५.१) from being mentioned
अनुस्मृताखण्डलसूनुविक्रमःअनुस्मृतआखण्डलसूनुविक्रम–अनुस्मृताखण्डलसूनुविक्रम (१.१) one who is reminded of the prowess of Arjuna
तवयुष्मद् (६.१) your
अभिधानात्अभिधान (५.१) from the name
व्यथतेव्यथते (√व्यथ् कर्तरि लट् (आत्मने.) प्र.पु. एक.) is distressed
नताननःनतानन (१.१) with face downcast
सःतद् (१.१) he
दुःसहात्दुःसह (५.१) from an unbearable
मन्त्रपदात्मन्त्रपद (५.१) incantation
इवइव like
उरगःउरग (१.१) a serpent
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
था प्र ङ्गे नै रु दा हृ ता
नु स्मृ ता ण्ड सू नु वि क्र मः
वा भि धा ना द्व्य ते ता नः
दुः हा न्म न्त्र दा दि वो गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.