Loading data... On slow networks this could take a few minutes.
100%

स यौवराज्ये नवयौवनोद्धतं
निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा
धिनोति हव्येन हिरण्यरेतसम् ॥

अन्वयः AI इद्ध-शासनः सः नव-यौवन-उद्धतं दुःशासनं यौवराज्ये निधाय, पुरोधसा अनुमतः (सन्) अखिन्नः (सन्) मखेषु हव्येन हिरण्य-रेतसं धिनोति।
English Summary AI That powerful ruler (Duryodhana), having appointed Duhshasana, who is arrogant with fresh youth, to the position of crown prince, now tirelessly pleases Agni (the fire god) with oblations in sacrifices, with the approval of his priest.
सारांश AI दुर्योधन ने शासन का भार युवराज दुःशासन को सौंपकर स्वयं को धार्मिक कार्यों में लगा लिया है; वह पुरोहितों की अनुमति से यज्ञों में हवि अर्पित कर अग्निदेव को प्रसन्न कर रहा है।
घण्टापथव्याख्या (मल्लिनाथः) स इति ॥ इद्धशासनोऽप्रतिहताज्ञः स दुर्योधनो नवयौवनेनोद्धतं प्रगल्भम् । धुरम्धरमित्यर्थः। दुःखेन शास्यत इति दुःशासनस्तम् । भाषायां शासियुधि— इत्यादिना खलर्थं युच्प्रत्ययः। यौवराज्ये युवराजकर्मणि । ब्राह्मणादित्वात्ष्यञ् । निधाय । नियुज्येत्यर्थः । पुरोधसा पुरोहितेनानुमतोऽनुज्ञातः। तस्मिन्याजके सतीत्यर्थः । तदुल्लङ्घने दोषस्मरणादिति भावः। निष्ठा (अष्टाध्यायी १.२.१९ ) इति भूतार्थे क्तः । न तु मतिबुद्धि- (अष्टाध्यायी ३.२.१८८ ) इत्यादिना वर्तमानार्थे। अन्यथा पुरोधसा इत्यत्र क्तस्य च वर्तमाने (अष्टाध्यायी २.३.६७ ) इति षष्ठी स्यात् । अखिन्नोऽनलसो मखेषु क्रतुषु हव्येन हविषा । हिरण्यं रेतो यस्य तं हिरण्यरेतसमनलं धिनोति प्रीणयति । धिन्वेः प्रीणनार्थात् धिन्विकृण्व्योर च (अष्टाध्यायी ३.१.८० ) इत्युप्रत्ययः । अकारश्चान्तादेशः ॥ न चैतावता निरुद्योगैर्भाव्यमित्याशङ्क्याशां दर्शयति
पदच्छेदः AI
सःतद् (१.१) he
यौवराज्येयौवराज्य (७.१) in the position of crown prince
नवयौवनोद्धतम्नवयौवनोद्धत (२.१) arrogant with new youth
निधायनिधाय (नि√धा+ल्यप्) having appointed
दुःशासनम्दुःशासन (२.१) Duhshasana
इद्धशासनःइद्धशासन (१.१) whose command is blazing/powerful
मखेषुमख (७.३) in sacrifices
अखिन्नःअखिन्न (१.१) tireless
अनुमतःअनुमत (अनु√मन्+क्त, १.१) approved
पुरोधसापुरोधस् (३.१) by the priest
धिनोतिधिनोति (√धिन्व् कर्तरि लट् (परस्मै.) प्र.पु. एक.) pleases
हव्येनहव्य (३.१) with oblations
हिरण्यरेतसम्हिरण्यरेतस् (२.१) Agni (the fire god)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
यौ रा ज्ये यौ नो द्ध तं
नि धा दुः शा मि द्ध शा नः
खे ष्व खि न्नो ऽनु तः पु रो सा
धि नो ति व्ये हि ण्य रे सम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.