Loading data... On slow networks this could take a few minutes.
100%

महीभुजां सच्चरितैश्चरैः क्रियाः
स वेद निःशेसमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः
प्रतीयते धातुरिवेहितं फलैः ॥

अन्वयः AI अशेषित-क्रियः सः सत्-चरितैः चरैः मही-भुजां क्रियाः निःशेषं वेद। तस्य ईहितं महा-उदयैः हित-अनुबन्धिभिः फलैः धातुः (ईहितम्) इव प्रतीयते।
English Summary AI That diligent man (Duryodhana), who leaves no task unfinished, knows completely the activities of other kings through his spies of good conduct. His intentions, like those of the Creator, are inferred from their results, which are greatly prosperous and lead to long-term benefits.
सारांश AI 'वह राजा गुप्तचरों के माध्यम से अन्य राजाओं के गुप्त कार्यों को भी जान लेता है। ब्रह्मा के संकल्प की भाँति उसके प्रयासों का पता केवल उनके सफल परिणामों से ही चलता है।'
घण्टापथव्याख्या (मल्लिनाथः) महीभृतामिति ॥ अशेषितक्रियः समापितकृत्य:। आफलदयकर्मेत्यर्थः । स दुर्योधनः सञ्चरितैः शुद्धचरितैः। अवञ्चकैरित्यर्थः । चरन्तीति चरास्तैश्चरैः प्रणिधिभिः । पचाद्यच् । महीभृतां क्रियाः प्रारम्भान्निःशेषं वेद वेत्ति । विदो लटो वा (अष्टाध्यायी ३.४.८३ ) इति णलादेशः । स्वरहस्यं तु न कश्चिद्वेदेत्याह-महोदयैरिति । धातुरिव तस्य दुर्योधनस्येहितमुद्योगो महोदयैर्महावृद्धिभिः । हितमनुबध्न्त्यनुरुन्धन्तीति हितानुबन्धिभिः। स्वन्तैरित्यर्थः । फलैः कार्यसिद्धिभिः प्रतीयते ज्ञायते । फलानुमेयास्तस्य प्रारम्भा इत्यर्थः ॥ मित्रबलमाह—न तेन संज्यं क्वचिदु द्यतं धनुः कृतं न वा कोपविजिह्ममाननम् । मुणानुरागेण शिरोभिरुह्यते नराधिपैर्माल्यमिवास्य शासनम्
पदच्छेदः AI
महीभुजाम्महीभुज् (६.३) of kings
सच्चरितैःसच्चरित (३.३) of good conduct
चरैःचर (३.३) by spies
क्रियाःक्रिया (२.३) the activities
सःतद् (१.१) he
वेदवेद (√विद् कर्तरि लिट् (परस्मै.) प्र.पु. एक.) knows
निःशेषम्निःशेषम् completely
अशेषितक्रियःअशेषितक्रिय (१.१) who leaves no task unfinished
महोदयैःमहोदय (३.३) by greatly prosperous
तस्यतद् (६.१) his
हितानुबन्धिभिःहितानुबन्धिन् (३.३) leading to long-term benefits
प्रतीयतेप्रतीयते (प्रति√इ भावकर्मणोः लट् (आत्मने.) प्र.पु. एक.) is inferred
धातुःधातृ (६.१) of the Creator
इवइव like
ईहितम्ईहित (√ईह्+क्त, १.१) intention
फलैःफल (३.३) by the results
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
ही भु जां च्च रि तै श्च रैः क्रि याः
वे निः शे शे षि क्रि यः
हो यै स्त स्य हि ता नु न्धि भिः
प्र ती ते धा तु रि वे हि तं लैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.