Loading data... On slow networks this could take a few minutes.
100%

महौजसो मानधना धनार्चिता
धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः
प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥

अन्वयः AI महा-ओजसः, मान-धनाः, धन-अर्चिताः, संयति लब्ध-कीर्तयः धनुः-भृतः तस्य (अनुजीविनः) न संहताः (भवन्ति), न भेद-वृत्तयः (भवन्ति), (किन्तु) असुभिः प्रियाणि समीहितुं वाञ्छन्ति।
English Summary AI His warriors—men of great valor, who hold honor as their wealth, are rewarded with riches, and have earned fame in battle—are neither forming factions against each other nor are they disunited. They desire to accomplish his cherished goals even at the cost of their own lives.
सारांश AI 'उसके पराक्रमी और स्वाभिमानी योद्धा धन और मान से संतुष्ट हैं। वे युद्ध में विजयी और परस्पर संगठित होकर अपने प्राणों की बाजी लगाकर भी राजा का प्रिय करना चाहते हैं।'
घण्टापथव्याख्या (मल्लिनाथः) । उदारेति ॥ उदारकीर्तेर्महायशसः।उदारो दातृमहतोःइत्यमरः (अमरकोशः ३.३.२०० ) । दयावतः परदुःखप्रहाणेच्छो:। अतएव प्रशान्तबाधं प्रशमितोपद्रवं यथा स्यात्तथेति क्रियाविशेषणम् । उदयविशेषणं वा। वा दान्तशान्त- (अष्टाध्यायी ७.२.२७ ) इत्यादिना शमिधातोर्ण्यन्तान्निष्ठान्तो निपातः ।, अभिरक्षया सर्वतस्त्राणेनोदयं वृद्धिं दिशतः संपादयतो वसूपमानस्य कुबेरोपमस्य । वसुर्मयूखाग्निधनाधिपेषु इति विश्वः । अस्य दुर्योधनस्य गुणैर्दयादाक्षिण्याविभिरुपस्नुता द्राविता मेदिनी वसूनि धनानि ।वसु तोये धने मणौ इति वैजयन्ती । स्वयं प्रदुग्धे। अक्लेशेन दुह्यत इत्यर्थः । दुहे: कर्मकर्तरि लट् । न दुहस्नुनमाम्यक्विणौ इति यक्प्रतिषेधः । यथा केनचिद्विदग्धेन नवप्रसूता रक्षिता च गौः स्वयं प्रदुग्धे तद्वदिति भावः । अलंकारस्तु-विशेषणमात्रसाम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः इति सर्वस्वकारः । अत्र प्रतीयमानया गवा सह प्रक्रताङ्क्त्या मेदिन्या भेदेऽभेदलक्षणातिशयोक्तिवशाद्दोह्यत्वेनोक्तिरिति संक्षेपः ॥ वीरभटानुकूल्यमाह-महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । नुसंहतास्तस्यं नभिन्नवृत्तयः प्रियाणि वाञ्छन्त्यसुभिः समीहितुम्
पदच्छेदः AI
महौजसःमहौजस् (१.३) of great valor
मानधनाःमानधन (१.३) for whom honor is wealth
धनार्चिताःधनार्चित (१.३) honored with wealth
धनुर्भृतःधनुर्भृत् (१.३) warriors
संयतिसंयति (७.१) in battle
लब्धकीर्तयःलब्धकीर्ति (१.३) who have gained fame
not
संहताःसंहत (सम्√हन्+क्त, १.३) united (in conspiracy)
तस्यतद् (६.१) his
not
भेदवृत्तयःभेदवृत्ति (१.३) of divisive nature
प्रियाणिप्रिय (२.३) cherished goals
वाञ्छन्तिवाञ्छन्ति (√वाञ्छ् कर्तरि लट् (परस्मै.) प्र.पु. बहु.) desire
असुभिःअसु (३.३) with their lives
समीहितुम्समीहितुम् (सम्√ईह्+तुमुन्) to accomplish
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
हौ सो मा ना ना र्चि ता
नु र्भृ तः सं ति ब्ध की र्त यः
सं ता स्त स्य भे वृ त्त यः
प्रि या णि वा ञ्छ न्त्य सु भिः मी हि तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.