निरत्ययं साम न दानवर्जितं
न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी
गुणानुरोधेन विना न सत्क्रिया ॥

अन्वयः AI तस्य निरत्ययं साम दान-वर्जितं न (प्रवर्तते)। भूरि दानं सत्क्रियां विरहय्य न (प्रवर्तते)। विशेष-शालिनी सत्क्रिया गुण-अनुरोधेन विना न प्रवर्तते।
English Summary AI His (Duryodhana's) unfailing conciliation is never without gifts; his generous gifts are not without respectful treatment; and his excellent respectful treatment is never bestowed without regard to merit.
सारांश AI 'उसकी साम-नीति दान रहित नहीं होती और प्रचुर दान बिना सत्कार के नहीं दिया जाता। उसका विशेष सत्कार भी गुणों के सम्मान के बिना संपन्न नहीं होता है।'
घण्टापथव्याख्या (मल्लिनाथः) 'निरत्ययमिति ॥ तस्य दुर्योधनस्य निरत्ययं निर्बाधम् । अमायिकमित्यर्थः।अन्यथा जनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम् । 'साम सान्त्वमुभे समे' इत्यमरः। दानवर्जितं न प्रवर्तते अन्यथा लुब्धाद्यावर्जनस्य शुष्कप्रियैर्वाक्यैर्दुष्करत्वादिति भावः। उक्तं च–लुब्धमर्थेन गृह्णीयात्साधुमञ्जलिकर्मणा । मुर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम् ॥' इति। तथा भूरि प्रभूतम् । न तु कदाचित्स्वल्पमित्यर्थः । दानं धनत्यागः । सदित्यादरार्थेऽव्ययम्।'आदरानादयोः सदसती' इति निपातसंज्ञास्मरणात् । तस्य क्रियां सत्क्रियां विरहय्य विहाय । ल्यपि लघुपूर्वात् (अष्टाध्यायी ६.४.५६ ) इत्ययादेशः । न प्रवर्तते । अनादरे दानवैफल्यादिति भावः । न चैवं सर्वत्र, येनाविवेकित्वं कोशहानिश्च स्यादित्याह -प्रेति । विशेषशालिन्यतिशययोगिनी सत्क्रियादरक्रिया गुणानुरोधेन गुणानुरागेण विना न प्रवर्तते । पृथग्विना- (अष्टाध्यायी २.३.३२ ) इत्यादिना तृतीया । गुणेष्वेवादरो भूरिदानं चेति नोक्तदोषावकाश इत्यर्थः । अत्रोत्तरोत्तरस्य पूर्वपूर्वविशेषणतया स्थापनादेकावल्यलंकारः । तदुक्तं काव्यप्रकाशे—स्थाप्यतेऽपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया वस्तु यत्र सैकावली द्विधा ॥' इति ॥ अथ दण्डप्रकारमाह
पदच्छेदः AI
निरत्ययम्निरत्यय (१.१) unfailing
सामसामन् (१.१) conciliation
not
दानवर्जितम्दानवर्जित (१.१) is devoid of gifts
not
भूरिभूरि (१.१) generous
दानम्दान (१.१) gift
विरहय्यविरहय्य (वि√रह्+णिच्+ल्यप्) abandoning
सत्क्रियाम्सत्क्रिया (२.१) respectful treatment
प्रवर्ततेप्रवर्तते (प्र√वृत् कर्तरि लट् (आत्मने.) प्र.पु. एक.) is practiced
तस्यतद् (६.१) his
विशेषशालिनीविशेषशालिन् (१.१) excellent
गुणानुरोधेनगुणानुरोध (३.१) regard for merit
विनाविना without
not
सत्क्रियासत्क्रिया (१.१) respectful treatment
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
नि त्य यं सा दा र्जि तं
भू रि दा नं वि य्य त्क्रि याम्
प्र र्त ते स्य वि शे शा लि नी
गु णा नु रो धे वि ना त्क्रि या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.