असक्तमाराधयतो यथायथं
विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवा-
न्न बाधतेऽस्य त्रिगणः परस्परम् ॥

अन्वयः AI यथायथं विभज्य, समपक्षपातया भक्त्या असक्तम् आराधयतः अस्य त्रिगणः गुणानुरागात् सख्यम् ईयिवान् इव परस्परं न बाधते।
English Summary AI As he (Duryodhana) pursues Dharma, Artha, and Kama with impartiality, dividing his time appropriately and with equal devotion, his three pursuits do not conflict with one another, as if they have become friends out of admiration for his virtues.
सारांश AI 'आसक्ति रहित होकर वह धर्म, अर्थ और काम का उचित विभाजन कर सेवन करता है। उसके गुणों के कारण ये तीनों पुरुषार्थ परस्पर विरोध छोड़कर मित्रता के समान प्रतीत होते हैं।'
घण्टापथव्याख्या (मल्लिनाथः) असक्तमिति ॥ यथायथं यथास्वं विभज्य। असंकीर्णरूपं विविच्येत्यर्थः ।यथास्वे यथायथम् (अष्टाध्यायी ८.१.१४ ) इति निपातनाद्द्विर्भावो नपुंसकत्वं च । ह्रस्वो नपुंसके प्रातिपदिकस्य (अष्टाध्यायी १.२.४७ ) इति ह्रस्वंत्वम् । पक्षे पातः पक्षपात आसक्तिविशेषः समस्तुल्यो यस्यां तया समपक्षपातया। भक्त्त्यानुरागविशेषेण । पूज्येष्वनुरागो भक्तिरित्युपदेशः । पूज्यश्चायं त्रिवर्ग इति । असक्तमनासक्तम् । अव्यसनितयेति यावत् । आराधयतः सेवमानस्यास्य दुर्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिगणस्त्रिवर्गः । त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकै: इत्यमरः (अमरकोशः २.७.६२ ) । गुणानुरागात्तदीयगुणेष्वनुरागात् । गुणवदाश्रयलोभादित्यर्थः । सख्यं मैत्रीम्। सख्युर्यः (अष्टाध्यायी ५.१.१२६ ) इति यप्रत्ययः । ईयिवानुपगतवानिवेत्युत्प्रेक्षा । 'उपेयिवाननाश्चाननूचानश्च' इति क्वसुप्रत्ययान्तो निपातः । 'नात्रौपसर्गस्तन्त्रम्'इति काशिकाकार आह स्म। परस्परं न बाधते । समवर्तित्वादस्य धर्मार्थकामाः परस्परानुपमर्दैन वर्धन्त इत्यर्थः । उक्तं च—धर्मार्थकामा: सममेव सेव्या यो ह्येकसक्तः स जनो जघन्यः' इति ॥ अथ श्लोकत्रयेणोपायकौशलं दर्शयन्नादौ सामदाने दर्शयति
पदच्छेदः AI
असक्तम्असक्त (अ√सञ्ज्+क्त, २.१) without attachment
आराधयतःआराधयत् (आ√राध्+णिच्+शतृ, ६.१) of him who is propitiating
यथायथम्यथायथम् appropriately
विभज्यविभज्य (वि√भज्+ल्यप्) having divided
भक्त्याभक्ति (३.१) with devotion
समपक्षपातयासमपक्षपाता (३.१) which is impartial
गुणानुरागात्गुणानुराग (५.१) out of affection for his virtues
इवइव as if
सख्यम्सख्य (२.१) friendship
ईयिवान्ईयिवस् (√इ+क्वसु, १.१) having attained
not
बाधतेबाधते (√बाध् कर्तरि लट् (आत्मने.) प्र.पु. एक.) obstruct
अस्यइदम् (६.१) his
त्रिगणःत्रिगण (१.१) the three pursuits (dharma, artha, kama)
परस्परम्परस्परम् each other
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१० ११ १२
क्त मा रा तो था थं
वि ज्य क्त्या क्ष पा या
गु णा नु रा गा दि ख्य मी यि वा
न्न बा ते ऽस्य त्रि णः स्प रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.