चतुर्थस्तरङ्गः ।
८.४.१
ततः प्रातः समं सैन्यैः स सुमेरुतपोवनात् ।
तस्मात्सूर्यप्रभः प्रायाच्छ्रुतशर्मजिगीषया ॥
तस्मात्सूर्यप्रभः प्रायाच्छ्रुतशर्मजिगीषया ॥
Summary
AI
Then, in the morning, accompanied by his armies, Sūryaprabha set out from the hermitage of Sumeru with the desire to conquer Śrutaśarman.
८.४.२
तन्निवासस्य निकटं त्रिकूटाद्रेरवाप्य च ।
आवासितो ऽभूत्तत्रस्थं बलेनोत्सार्य तद्बलम् ॥
आवासितो ऽभूत्तत्रस्थं बलेनोत्सार्य तद्बलम् ॥
Summary
AI
Reaching the vicinity of the enemy's residence near the Trikūṭa mountain, he encamped there after forcibly driving away the troops stationed in that place.
८.४.३
आवासिते च तत्रास्मिन्ससुमेरुमयादिके ।
आस्थानस्थे त्रिकूटेशसंबन्धी दूत आययौ ॥
आस्थानस्थे त्रिकूटेशसंबन्धी दूत आययौ ॥
Summary
AI
While he was encamped there with Sumeru, Maya, and others, a messenger related to the lord of Trikūṭa arrived at the royal assembly.
८.४.४
स चागत्य जगादैवं सुमेरुं खेचरेश्वरम् ।
श्रुतशर्मपिता राजा तव संदिष्टवानिदम् ॥
श्रुतशर्मपिता राजा तव संदिष्टवानिदम् ॥
Summary
AI
Having arrived, he spoke thus to Sumeru, the lord of the Vidyādharas: "King Śrutaśarman’s father has sent this message to you."
८.४.५
दूरस्थस्य न ते ऽस्माभिराचारो जातुचित्कृतः ।
अद्यास्मद्विषयं प्राप्तः स त्वं प्राघुणिकैः सह ॥
अद्यास्मद्विषयं प्राप्तः स त्वं प्राघुणिकैः सह ॥
Summary
AI
"Since you lived far away, we never extended formal hospitality to you. Today, you have arrived in our territory along with your guests."
८.४.६
तदातिथ्यमिदानीं वो विधास्यामो यथोचितम् ।
श्रुत्वैतं शत्रुसंदेशं सुमेरुः प्रत्युवाच तम् ॥
श्रुत्वैतं शत्रुसंदेशं सुमेरुः प्रत्युवाच तम् ॥
Summary
AI
"Now we shall offer you appropriate hospitality." Upon hearing this message from the enemy, Sumeru replied to him.
८.४.७
साधु नास्मत्समं पात्रमतिथिं प्राप्स्यथापरम् ।
आतिथ्यं न परे लोके दास्यतीहैव तत्फलम् ॥
आतिथ्यं न परे लोके दास्यतीहैव तत्फलम् ॥
Summary
AI
"Well said! You will not find another guest as worthy as us. This hospitality will not wait for the next world; it will bear fruit right here."
८.४.८
तदिमे वयमातिथ्यं क्रियतामित्युदाहृते ।
सुमेरुणा तथैवागात्स दूतः स्वं प्रभुं प्रति ॥
सुमेरुणा तथैवागात्स दूतः स्वं प्रभुं प्रति ॥
Summary
AI
"Therefore, here we are; let the hospitality be performed." When Sumeru spoke thus, the messenger returned to his master.
८.४.९
अथोन्नतप्रदेशस्थास्ते तु सूर्यप्रभादयः ।
सैन्यानि ददृशुः स्वानि निविष्टानि पृथक्पृथक् ॥
सैन्यानि ददृशुः स्वानि निविष्टानि पृथक्पृथक् ॥
Summary
AI
Then Sūryaprabha and the others, standing on elevated ground, observed their own armies encamped in various separate divisions.
८.४.१०
ततः सुनीथः पितरं स्वमुवाच मयासुरम् ।
प्रविभागं रथादीनामस्मत्सैन्ये ऽत्र शंस नः ॥
प्रविभागं रथादीनामस्मत्सैन्ये ऽत्र शंस नः ॥
Summary
AI
Then Sunītha said to his father, the Asura Maya: "Tell us about the classification of chariots and other divisions in our army here."
८.४.११
एवं करोमि शृणुतेत्युक्त्वाङ्गुल्या निदर्शयन् ।
दानवेन्द्रः स सर्वज्ञो वक्तुमेवं प्रचक्रमे ॥
दानवेन्द्रः स सर्वज्ञो वक्तुमेवं प्रचक्रमे ॥
Summary
AI
"I shall do so; listen," said the omniscient lord of the Dānavas, and pointing with his finger, he began to speak.
८.४.१२
असौ सुबाहुर्निर्घातो मुष्टिको गोहरस्तथा ।
प्रलम्बश्च प्रमाथश्च कङ्कटः पिङ्गलो ऽपि च ॥
प्रलम्बश्च प्रमाथश्च कङ्कटः पिङ्गलो ऽपि च ॥
Summary
AI
"Behold Subāhu, Nirghāta, Muṣṭika, and likewise Gohara, Pralamba, Pramātha, Kaṅkaṭa, and Piṅgala."
८.४.१३
वसुदत्तादयश्चैते राजानो ऽर्धरथा इमे ।
अङ्कुरी सुविशालश्च दण्डिभूषणसोमिलाः ॥
अङ्कुरी सुविशालश्च दण्डिभूषणसोमिलाः ॥
Summary
AI
"These kings, Vasudatta and others, are half-chariot warriors (ardharatha). Then there are Aṅkurī, Suviśāla, Daṇḍin, Bhūṣaṇa, and Somila."
८.४.१४
उन्मत्तको देवशर्मा पितृशर्मा कुमारकः ।
एते सहरिदत्ताद्याः सर्वे पूर्णरथा मताः ॥
एते सहरिदत्ताद्याः सर्वे पूर्णरथा मताः ॥
Summary
AI
"Unmattaka, Devaśarman, Pitṛशर्मा, and Kumāraka—these, along with Haridatta and the rest, are all considered full-chariot warriors (pūrṇaratha)."
८.४.१५
प्रकम्पनो दर्पितश्च कुम्भीरो मातृपालितः ।
महाभटः सोग्रभटो वीरस्वामी सुराधरः ॥
महाभटः सोग्रभटो वीरस्वामी सुराधरः ॥
Summary
AI
"Prakampana, Darpita, Kumbhīra, Mātṛpālita, Mahābhaṭa, Ugrabhaṭa, Vīrasvāmin, and Surādhara."
८.४.१६
भण्डीरः सिंहदत्तश्च गुणवर्मा सकीटकः ।
भीमो भयंकरश्चेति सर्वे ऽमी द्विगुणा रथाः ॥
भीमो भयंकरश्चेति सर्वे ऽमी द्विगुणा रथाः ॥
Summary
AI
"Bhaṇḍīra, Siṃhadatta, Guṇavarman, Kīṭaka, Bhīma, and Bhayaṅkara—all these are double-chariot warriors (dviguṇaratha)."
८.४.१७
विरोचनो वीरसेनो यज्ञसेनो ऽथ खुज्जरः ।
इन्द्रवर्मा शबरकः क्रूरकर्मा निरासकः ॥
इन्द्रवर्मा शबरकः क्रूरकर्मा निरासकः ॥
Summary
AI
"Virocana, Vīrasena, Yajñasena, Khujjara, Indravarman, Śabaraka, Krūrakarman, and Nirāsaka."
८.४.१८
भवेयुस्त्रिगुणा एते रथा राजसुताः सुत ।
सुशर्मा बाहुशाली च विशाखः क्रोधनो ऽप्ययम् ॥
सुशर्मा बाहुशाली च विशाखः क्रोधनो ऽप्ययम् ॥
Summary
AI
"O son, these princes are triple-chariot warriors (triguṇaratha). Then there are Suśarman, Bāhuśālin, Viśākha, and the wrathful Krodhana."
८.४.१९
प्रचण्डश्चेत्यमी राजपुत्रा रथचतुर्गुणाः ।
जुञ्जरी वीरवर्मा च प्रवीरवर एव च ॥
जुञ्जरी वीरवर्मा च प्रवीरवर एव च ॥
Summary
AI
"And Pracaṇḍa—these princes are quadruple-chariot warriors (rathacaturguṇa). Also Juñjarī, Vīravarman, and Pravīravara."
८.४.२०
सुप्रतिज्ञो ऽमरारामश्चण्डदत्तो ऽथ जालिकः ।
त्रयः सिंहभटव्याघ्रभटशत्रुभटा अपि ॥
त्रयः सिंहभटव्याघ्रभटशत्रुभटा अपि ॥
Summary
AI
"Supratijña, Amarārāma, Caṇḍadatta, and Jālika, as well as the trio Siṃhabhaṭa, Vyāghrabhaṭa, and Śatrubhaṭa."
८.४.२१
राजानो राजपुत्राश्च रथाः पञ्चगुणा अमी ।
उग्रवर्मा त्वयं राजपुत्रः स्यात्षड्गुणो रथः ॥
उग्रवर्मा त्वयं राजपुत्रः स्यात्षड्गुणो रथः ॥
Summary
AI
These kings and princes are five-fold charioteers, but this Prince Ugravarmā is a six-fold charioteer.
८.४.२२
राजपुत्रो विशाखश्च सुतन्तुः सुगमो ऽपि च ।
नरेन्द्रशर्मा चेत्येते रथाः सप्तगुणा मताः ॥
नरेन्द्रशर्मा चेत्येते रथाः सप्तगुणा मताः ॥
Summary
AI
Prince Viśākha, Sutantu, Sugama, and Narendraśarmā are considered seven-fold charioteers.
८.४.२३
महारथः पुनरयं सहस्रायुनृपात्मजः ।
महारथानां यूथस्य शतानीकस्त्वयं पतिः ॥
महारथानां यूथस्य शतानीकस्त्वयं पतिः ॥
Summary
AI
Furthermore, this son of King Sahasrāyu is a mahāratha, while Śatānīka is the leader of the host of mahārathas.
८.४.२४
सुभासहर्षविमलाः सूर्यप्रभवयस्यकाः ।
महाबुद्ध्यचलाख्यौ च प्रियंकरशुभंकरौ ॥
महाबुद्ध्यचलाख्यौ च प्रियंकरशुभंकरौ ॥
Summary
AI
Subhāsa, Harṣa, and Vimala, who are the companions of Sūryaprabha, along with those named Mahābuddhi and Acala, and Priyaṃkara and Śubhaṃkara are also identified.
८.४.२५
एते महारथा यज्ञरुचिधर्मरुची तथा ।
एवं विश्वरुचिर्भासः सिद्धार्थश्चेत्यमी त्रयः ॥
एवं विश्वरुचिर्भासः सिद्धार्थश्चेत्यमी त्रयः ॥
Summary
AI
These are all mahārathas, as are Yajñaruchi and Dharmaruchi; likewise, these three—Viśvaruchi, Bhāsa, and Siddhārtha—are also great charioteers.
८.४.२६
सूर्यप्रभस्य सचिवाः स्युर्महारथयूथपाः ।
प्रहस्तश्च महार्थश्च तस्यातिरथयूथपौ ॥
प्रहस्तश्च महार्थश्च तस्यातिरथयूथपौ ॥
Summary
AI
Sūryaprabha’s ministers are the commanders of the mahāratha hosts, while Prahasta and Mahārtha are his commanders of atiratha forces.
८.४.२७
यूथपौ रथयूथानां प्रज्ञाढ्यस्थिरबुद्धिकौ ।
दानवः सर्वदमनस्तथा प्रमथनो ऽप्यसौ ॥
दानवः सर्वदमनस्तथा प्रमथनो ऽप्यसौ ॥
Summary
AI
Prajñāḍhya and Sthirabuddhi are the commanders of the chariot divisions, and the dānava Sarvadamana as well as Pramathana are also commanders.
८.४.२८
धूमकेतुः प्रवहणो वज्रपञ्जर एव च ।
कालचक्रो मरुद्वेगो रथातिरथपा अमी ॥
कालचक्रो मरुद्वेगो रथातिरथपा अमी ॥
Summary
AI
Dhūmaketu, Pravahaṇa, Vajrapañjara, Kālachakra, and Marudvega are the leaders of the ratha and atiratha classes of warriors.
८.४.२९
प्रकम्पनः सिंहनादो रथातिरथयूथपौ ।
महामायः काम्बलिकः कालकम्पनको ऽप्ययम् ॥
महामायः काम्बलिकः कालकम्पनको ऽप्ययम् ॥
Summary
AI
Prakampana and Siṃhanāda are commanders of the ratha and atiratha hosts, as are Mahāmāya, Kāmbalika, and Kālakampanaka.
८.४.३०
प्रहृष्टरोमा चेत्येते चत्वारो ऽप्यसुराधिपाः ।
पुत्रातिरथयूथाधिपतीनामधिपा इमे ॥
पुत्रातिरथयूथाधिपतीनामधिपा इमे ॥
Summary
AI
Prahṛṣṭaromā and these four asura lords are the supreme commanders over the leaders of the putrātiratha hosts.
८.४.३१
सूर्यप्रभसमश्चायं प्रभासः सैन्यनायकः ।
सुमेरुतनयश्चैष श्रीकुञ्जरकुमारकः ॥
सुमेरुतनयश्चैष श्रीकुञ्जरकुमारकः ॥
Summary
AI
Prabhāsa, who is equal to Sūryaprabha, is the general of the army, and Prince Śrīkuñjara is the son of Sumeru.
८.४.३२
द्वौ महारथयूथाधिपतियूथाधिपाविमौ ।
इत्येते ऽस्मद्बले ऽन्ये च शूराः स्वैः स्वैर्बलैर्वृताः ॥
इत्येते ऽस्मद्बले ऽन्ये च शूराः स्वैः स्वैर्बलैर्वृताः ॥
Summary
AI
These two are the commanders over the leaders of the mahāratha hosts; these and other heroes stand ready in our army, surrounded by their respective forces.
८.४.३३
परसैन्ये ऽधिकाः सन्ति तथाप्यस्मद्बलस्य ते ।
न पर्याप्ता भविष्यन्ति सप्रसादे महेश्वरे ॥
न पर्याप्ता भविष्यन्ति सप्रसादे महेश्वरे ॥
Summary
AI
Though the enemy army is more numerous, they will not be a match for our forces as long as Lord Maheśvara is gracious toward us.
८.४.३४
इति यावत्सुनीथं तं ब्रवीति स मयासुरः ।
श्रुतशर्मपितुः पार्श्वाद्दूतो ऽन्यस्तावदाययौ ॥
श्रुतशर्मपितुः पार्श्वाद्दूतो ऽन्यस्तावदाययौ ॥
Summary
AI
While the asura Maya was speaking thus to Sunītha, another messenger arrived from the presence of the father of Śrutaśarmā.
८.४.३५
स चोवाच त्रिकूटाधिपतिरेवं ब्रवीति वः ।
सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् ॥
सङ्ग्रामो नाम शूराणामुत्सवो हि महानयम् ॥
Summary
AI
The messenger said: The Lord of Trikūṭa speaks thus to you: This great festival of heroes is indeed called battle.
८.४.३६
तस्यैषा संकटा भूमिस्तस्मादागम्यतामितः ।
यामः कलापग्रामाख्यं प्रदेशं विपुलान्तरम् ॥
यामः कलापग्रामाख्यं प्रदेशं विपुलान्तरम् ॥
Summary
AI
This ground is too cramped for the battle; therefore, come away from here. Let us go to the spacious region called Kalāpagrāma.
८.४.३७
एतच्छ्रुत्वा सुनीथाद्याः सैन्यैः सह तथेति ते ।
सर्वे कलापग्रामं तं सूर्यप्रभयुता ययुः ॥
सर्वे कलापग्रामं तं सूर्यप्रभयुता ययुः ॥
Summary
AI
Hearing this, Sunītha and the others, along with Sūryaprabha and their armies, agreed and departed for Kalāpagrāma.
८.४.३८
श्रुतशर्मादयस्ते ऽपि तथैव समरोन्मुखाः ।
तमेव देशमाजग्मुर्विद्याधरबलैर्वृताः ॥
तमेव देशमाजग्मुर्विद्याधरबलैर्वृताः ॥
Summary
AI
Eager for the battle, Śrutaśarmā and his allies likewise arrived at that same place, surrounded by their vidyādhara forces.
८.४.३९
श्रुतशर्मबले दृष्ट्वा गजान्सूर्यप्रभादयः ।
आनाययन्गजानीकं स्वं विमानाधिरोपितम् ॥
आनाययन्गजानीकं स्वं विमानाधिरोपितम् ॥
Summary
AI
Seeing elephants in Śrutaśarmā’s army, Sūryaprabha and his companions summoned their own elephant division, which was brought in mounted on celestial cars.
८.४.४०
ततः सेनापतिश्चक्रे सेनायां श्रुतशर्मणः ।
दामोदरो महासूचिव्यूहं विद्याधरोत्तमः ॥
दामोदरो महासूचिव्यूहं विद्याधरोत्तमः ॥
Summary
AI
Then Dāmodara, the preeminent vidyādhara and commander-in-chief, organized Śrutaśarmā’s army into the formidable Great Needle formation.
८.४.४१
तत्र पार्श्वे स्वयं तस्थौ श्रुतशर्मा समन्त्रिकः ।
अग्रे दामोदरश्चासीदन्यत्रान्ये महारथाः ॥
अग्रे दामोदरश्चासीदन्यत्रान्ये महारथाः ॥
Summary
AI
King Śrutaśarman, accompanied by his ministers, stood on the side; Dāmodara was in the front, while other great warriors occupied other positions.
८.४.४२
सैन्ये सूर्यप्रभस्यापि प्रभासो ऽनीकिनीपतिः ।
अर्धचन्द्रं व्यधाद्व्यूहं मध्ये तस्याभवत्स्वयम् ॥
अर्धचन्द्रं व्यधाद्व्यूहं मध्ये तस्याभवत्स्वयम् ॥
Summary
AI
In Sūryaprabha's army, the commander Prabhāsa formed a half-moon battle array and stationed himself in its center.
८.४.४३
सकुञ्जरकुमारश्च प्रहस्तश्चास्य कोणयोः ।
सूर्यप्रभसुनीथाद्यास्तस्थुः सर्वे ऽत्र पृष्ठतः ॥
सूर्यप्रभसुनीथाद्यास्तस्थुः सर्वे ऽत्र पृष्ठतः ॥
Summary
AI
Kuñjarakumāra and Prahasta stood at the wings of the formation, while Sūryaprabha, Sunītha, and others took their positions at the rear.
८.४.४४
सुमेरौ तत्समीपस्थे ससुवासकुमारके ।
आहन्यन्त रणातोद्यान्युभयोरपि सैन्ययोः ॥
आहन्यन्त रणातोद्यान्युभयोरपि सैन्ययोः ॥
Summary
AI
Near Mount Sumeru, where Suvāsa and Kumāraka were situated, the battle drums and instruments of both armies began to resound.
८.४.४५
तावच्च गगनं देवैः सङ्ग्रामं द्रष्टुमागतैः ।
सेन्द्रैः सलोकपालैश्च साप्सरस्कैरपूर्यत ॥
सेन्द्रैः सलोकपालैश्च साप्सरस्कैरपूर्यत ॥
Summary
AI
Meanwhile, the sky filled with gods who arrived to witness the battle, led by Indra and the world-guardians, accompanied by apsarases.
८.४.४६
आययौ चात्र विश्वेशः शंकरः पार्वतीयुतः ।
देवताभिर्गणैर्भूतैर्मातृभिश्चाप्यनुद्रुतः ॥
देवताभिर्गणैर्भूतैर्मातृभिश्चाप्यनुद्रुतः ॥
Summary
AI
Śaṅkara, the lord of the universe, arrived there with Pārvatī, followed by gods, his gaṇas, spirits, and the divine mothers.
८.४.४७
आगाच्च भगवान्ब्रह्मा सावित्र्यादिभिरन्वितः ।
मूर्तैर्वेदैश्च शास्त्रैश्च निखिलैश्च महर्षिभिः ॥
मूर्तैर्वेदैश्च शास्त्रैश्च निखिलैश्च महर्षिभिः ॥
Summary
AI
Lord Brahmā arrived accompanied by Sāvitrī and others, along with the personified Vedas, śāstras, and all the great sages.
८.४.४८
आजगाम च देवीभिर्लक्ष्मीकीर्तिजयादिभिः ।
धृतचक्रायुधो देवः पक्षिराजरथो हरिः ॥
धृतचक्रायुधो देवः पक्षिराजरथो हरिः ॥
Summary
AI
Lord Hari also arrived, wielding his discus and riding Garuḍa, the king of birds, accompanied by goddesses like Lakṣmī, Kīrti, and Jayā.
८.४.४९
सभार्यः कश्यपो ऽप्यागादादित्या वसवो ऽपि च ।
यक्षराक्षसनागेन्द्राः प्रह्लादाद्यास्तथासुराः ॥
यक्षराक्षसनागेन्द्राः प्रह्लादाद्यास्तथासुराः ॥
Summary
AI
Kaśyapa arrived with his wives, as did the Ādityas and Vasus, the lords of yakṣas, rākṣasas, and nāgas, and the asuras led by Prahlāda.
॥ इति चतुर्थस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.