तृतीयस्तरङ्गः ।
८.३.१९
तच्छ्रुत्वा निर्विकारस्तं पश्यन्सूर्यप्रभो ऽब्रवीत् ।
मच्छरीरं त्वदायत्तमविनीतं प्रशाधि माम् ॥
मच्छरीरं त्वदायत्तमविनीतं प्रशाधि माम् ॥
८.३.२१
वरं गृहाण तुष्टो ऽस्मीत्युक्तस्तेन तथेति सः ।
भक्तिं गुरुषु शंभौ च वव्रे सूर्यप्रभो वरम् ॥
भक्तिं गुरुषु शंभौ च वव्रे सूर्यप्रभो वरम् ॥
Summary
AI
When told by him, "I am pleased, choose a boon," Sūryaprabha agreed and chose the boon of devotion toward his preceptors and Lord Śambhu.
८.३.२२
ततस्तुष्टेषु सर्वेषु तस्मै सूर्यप्रभाय सः ।
प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥
प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ॥
Summary
AI
Then, while everyone was pleased, Prahlāda gave his second daughter, named Yāminī, to Sūryaprabha.
८.३.२३
सहायत्वे च पुत्रौ द्वौ तस्यादात्सो ऽसुरेश्वरः ।
ततः सर्वैः सहामीलपार्श्वं सूर्यप्रभो ययौ ॥
ततः सर्वैः सहामीलपार्श्वं सूर्यप्रभो ययौ ॥
Summary
AI
That lord of the Asuras also gave him two sons for assistance. Then Sūryaprabha, along with everyone, went to the presence of Amīla.
८.३.२४
सो ऽपि श्रुतवरप्राप्तितुष्टस्तस्मै सुखावतीम् ।
ददौ द्वितीयां तनयां साहाय्ये च सुतद्वयम् ॥
ददौ द्वितीयां तनयां साहाय्ये च सुतद्वयम् ॥
Summary
AI
Amīla, also pleased to hear of the boons obtained, gave him his second daughter Sukhāvatī and two sons to assist him.
८.३.२५
ततः सभाजयन्नन्यान्साहाय्यायासुराधिपान् ।
स्थितः सूर्यप्रभः सो ऽत्र तेष्वहःसु प्रियासखः ॥
स्थितः सूर्यप्रभः सो ऽत्र तेष्वहःसु प्रियासखः ॥
Summary
AI
Then Sūryaprabha, honoring other Asura lords for their help, stayed there during those days in the company of his beloveds.
८.३.२६
तिस्रः सुनीथभार्याश्च स्वभार्याश्च नृपात्मजाः ।
सर्वाः सगर्भाः संजाता मयादिसहितो ऽशृणोत् ॥
सर्वाः सगर्भाः संजाता मयादिसहितो ऽशृणोत् ॥
Summary
AI
Along with Maya and others, he heard that the three wives of Sunītha and all his own wives, who were princesses, had become pregnant.
८.३.२७
पृष्टाश्च दोहदं तुल्यं शशंसुरखिला अपि ।
महाहवदिदृक्षां ता ननन्दाथ मयासुरः ॥
महाहवदिदृक्षां ता ननन्दाथ मयासुरः ॥
Summary
AI
When questioned, all the women expressed the same pregnancy longing: a desire to witness a great battle. At this, Mayāsura rejoiced.
८.३.२८
एतासु दिष्ट्या संभूता असुरा ये पुरा हताः ।
तेन जातो ऽभिलाषो ऽयमेतासामिति सो ऽवदत् ॥
तेन जातो ऽभिलाषो ऽयमेतासामिति सो ऽवदत् ॥
Summary
AI
He said, "By good fortune, those Asuras who were slain in the past have been reborn in them; hence, this desire has arisen in these women."
८.३.२९
एवं ययुः षड्दिवसाः सप्तमे ते रसातलात् ।
भार्यादियुक्ता निर्जग्मुः सर्वे सूर्यप्रभादयः ॥
भार्यादियुक्ता निर्जग्मुः सर्वे सूर्यप्रभादयः ॥
Summary
AI
Thus six days passed. On the seventh, Sūryaprabha and all the others, accompanied by their wives and attendants, emerged from the underworld of Rasātala.
८.३.३०
उत्पातमाया विघ्नाय या तेषां दर्शितारिभिः ।
सा सुवासकुमारेण स्मृतायातेन नाशिता ॥
सा सुवासकुमारेण स्मृतायातेन नाशिता ॥
Summary
AI
The ill-omened illusion displayed by enemies to obstruct them was destroyed by Prince Suvāsa, who arrived as soon as he was remembered.
८.३.३१
ततश्चान्द्रप्रभं पृथ्वीराज्ये रत्नप्रभं शिशुम् ।
अभिषिच्य समारूढभूतासनविमानकाः ॥
अभिषिच्य समारूढभूतासनविमानकाः ॥
Summary
AI
Then, after consecrating the infant Ratnaprabha in the kingdom of Cāndraprabha, they ascended the Bhūtāsana chariot.
८.३.३२
सर्वे विद्याधरेन्द्रस्य सुमेरोस्ते निकेतनम् ।
ययुर्मयगिरा पूर्वगङ्गातीरतपोवनम् ॥
ययुर्मयगिरा पूर्वगङ्गातीरतपोवनम् ॥
Summary
AI
Following the words of Maya, they all went to the hermitage on the bank of the eastern Gaṅgā, the abode of Sumeru, the lord of the Vidyādharas.
८.३.३३
तत्र तान्सौहृदप्राप्तान्स सुमेरुरपूजयत् ।
मयोक्ताशेषवृत्तान्तः पूर्वाज्ञां शांभवीं स्मरन् ॥
मयोक्ताशेषवृत्तान्तः पूर्वाज्ञां शांभवीं स्मरन् ॥
Summary
AI
There, Sumeru, informed of the entire situation by Maya and remembering the previous command of Lord Śambhu, honored those who had arrived in friendship.
८.३.३४
तद्देशस्थाश्च ते स्वं स्वं सैन्यं सूर्यप्रभादिकाः ।
कार्त्स्न्येनानाययामासुर्बन्धूंश्च सुहृदस्तथा ॥
कार्त्स्न्येनानाययामासुर्बन्धूंश्च सुहृदस्तथा ॥
Summary
AI
Staying in that region, Sūryaprabha and the others summoned their respective armies in their entirety, along with their kinsmen and friends.
८.३.३५
आययुः प्रथमं सूर्यप्रभस्य श्वशुरात्मजाः ।
राजपुत्रा मयादिष्टा विद्याः संसाध्य सोद्यमाः ॥
राजपुत्रा मयादिष्टा विद्याः संसाध्य सोद्यमाः ॥
Summary
AI
First, the brothers-in-law of Sūryaprabha arrived, energetic princes who had mastered the magic sciences as directed by Maya.
८.३.३६
तेषां हरिभटादीनां षोडशानां रथायुतम् ।
द्वे चायुते पदातीनामेकैकस्यानुगं बलम् ॥
द्वे चायुते पदातीनामेकैकस्यानुगं बलम् ॥
Summary
AI
For each of those sixteen princes, led by Haribhaṭa, the following force accompanied them: ten thousand chariots and twenty thousand infantry.
८.३.३७
तदनु स्थितसंकेता आजग्मुर्दैत्यदानवाः ।
श्वशुर्याः श्वशुरा मित्त्राण्यन्ये चैतस्य बान्धवाः ॥
श्वशुर्याः श्वशुरा मित्त्राण्यन्ये चैतस्य बान्धवाः ॥
Summary
AI
Following them, the Daityas and Dānavas arrived as agreed, including brothers-in-law, fathers-in-law, friends, and other kinsmen of Sūryaprabha.
८.३.३८
हृष्टरोमा महामायः सिंहदंष्ट्रः प्रकम्पनः ।
तन्तुकच्छो दुरारोहः सुमायो वज्रपञ्जरः ॥
तन्तुकच्छो दुरारोहः सुमायो वज्रपञ्जरः ॥
Summary
AI
Hṛṣṭaroman, Mahāmāya, Siṃhadamṣṭra, Prakampana, Tantukaccha, Durāroha, Sumāya, and Vajrapañjara also arrived.
८.३.३९
धूमकेतुः प्रमथनो विकटाक्षश्च दानवः ।
बहवो ऽन्ये ऽपि चाजग्मुरा सप्तमरसातलात् ॥
बहवो ऽन्ये ऽपि चाजग्मुरा सप्तमरसातलात् ॥
Summary
AI
Dhūmaketu, Pramathana, the Dānava Vikaṭākṣa, and many others also came from as far as the seventh underworld of Rasātala.
८.३.४०
कश्चिद्रथानामयुतैः सप्तभिः कश्चिदष्टभिः ।
कश्चित्षड्भिस्त्रिभिः कश्चिद्यो ऽतिस्वल्पो ऽयुतेन सः ॥
कश्चित्षड्भिस्त्रिभिः कश्चिद्यो ऽतिस्वल्पो ऽयुतेन सः ॥
Summary
AI
Some came with seventy thousand chariots, some with eighty thousand, some with sixty thousand, some with thirty thousand, and the one with the smallest force came with ten thousand.
८.३.४१
पदातीनां त्रिभिर्लक्षैः कश्चिल्लक्षद्वयेन च ।
कश्चित्कश्चित्तु लक्षेण लक्षार्धेनाधमस्तु यः ॥
कश्चित्कश्चित्तु लक्षेण लक्षार्धेनाधमस्तु यः ॥
Summary
AI
Some arrived with three hundred thousand infantry, some with two hundred thousand, others with one hundred thousand, while the lowest among them brought fifty thousand.
८.३.४२
एकैकस्य च हस्त्यश्वमागात्तदनुसारतः ।
असंख्यमाययौ चान्यत्सैन्यं मयसुनीथयोः ॥
असंख्यमाययौ चान्यत्सैन्यं मयसुनीथयोः ॥
Summary
AI
Corresponding numbers of elephants and horses accompanied each leader, while the remaining forces of Maya and Sunītha that arrived were innumerable.
८.३.४३
सूर्यप्रभस्य चामेयमाजगाम निजं बलम् ।
वसुदत्तादिभूपानां सुमेरोश्च तथैव च ॥
वसुदत्तादिभूपानां सुमेरोश्च तथैव च ॥
Summary
AI
Sūryaprabha’s own immeasurable army arrived, as did the forces of kings like Vasudatta and the army of Sumeru.
८.३.४४
ततो मयासुरो ऽपृच्छच्चिन्तितोपस्थितं मुनिम् ।
तं सुवासकुमाराख्यं सह सूर्यप्रभादिभिः ॥
तं सुवासकुमाराख्यं सह सूर्यप्रभादिभिः ॥
Summary
AI
Then Mayāsura, along with Sūryaprabha and others, questioned the sage named Suvāsakumāra, who appeared as soon as he was thought of.
८.३.४५
विक्षिप्तमेतद्भगवन्सैन्यं नेहोपलक्ष्यते ।
तद्ब्रूहि कुत्र विस्तीर्णं युगपद्दृश्यतामिति ॥
तद्ब्रूहि कुत्र विस्तीर्णं युगपद्दृश्यतामिति ॥
Summary
AI
"O Blessed One, this scattered army cannot be fully seen here; therefore, tell us where it may be observed spread out all at once."
८.३.४६
इतो योजनमात्रे ऽस्ति कलापग्रामसंज्ञकः ।
प्रदेशस्तत्र विस्तीर्णे गत्वैतत्प्रविलोक्यताम् ॥
प्रदेशस्तत्र विस्तीर्णे गत्वैतत्प्रविलोक्यताम् ॥
Summary
AI
The sage replied, "A yojana from here is a place called Kalāpagrāma. Go there to see the army in its full expanse."
८.३.४७
इत्युक्ते तेन मुनिना तद्युक्ताः ससुमेरुकाः ।
ययुः कलापग्रामं तं सर्वे ते स्वबलैः सह ॥
ययुः कलापग्रामं तं सर्वे ते स्वबलैः सह ॥
Summary
AI
Following the sage's direction, they all, including Sumeru, proceeded to Kalāpagrāma accompanied by their respective forces.
८.३.४८
तत्रोन्नतस्थानगता ददृशुस्ते पृथक्पृथक् ।
संनिवेश्यासुराणां च नृपाणां च वरूथिनीः ॥
संनिवेश्यासुराणां च नृपाणां च वरूथिनीः ॥
Summary
AI
Standing on a high vantage point there, they observed the various armies of the asuras and the kings stationed separately.
८.३.४९
ततः सुमेरुराह स्म श्रुतशर्मा बलाधिकः ।
सन्ति विद्याधराधीशास्तस्य ह्येकोत्तरं शतम् ॥
सन्ति विद्याधराधीशास्तस्य ह्येकोत्तरं शतम् ॥
Summary
AI
Then Sumeru spoke, "Śrutaśarman is superior in strength, for he possesses one hundred and one lords of the Vidyādharas."
॥ इति तृतीयस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.