इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके चतुर्थस्तरङ्गः ।
८.५.१
अथ युद्धभुवं प्रातर्जग्मुः सूर्यप्रभादयः ।
श्रुतशर्मादयस्ते च संनद्धाः सबलाः पुनः ॥
श्रुतशर्मादयस्ते च संनद्धाः सबलाः पुनः ॥
Summary
AI
Then, at dawn, Sūryaprabha and his allies, along with Śrutaśarman and his forces, set out once more for the battlefield, fully armed and accompanied by their respective armies.
८.५.२
पुनश्च सेन्द्राः सब्रह्मविष्णुरुद्राः सुरासुराः ।
सयक्षोरगगन्धर्वाः सङ्ग्रामं द्रष्टुमाययुः ॥
सयक्षोरगगन्धर्वाः सङ्ग्रामं द्रष्टुमाययुः ॥
Summary
AI
Once again, the gods and demons, led by Indra, Brahmā, Viṣṇu, and Rudra, along with the Yakṣas, Uragas, and Gandharvas, arrived to witness the great battle.
८.५.३
श्रुतशर्मबले चक्रव्यूहं दामोदरो व्यधात् ।
वज्रव्यूहं प्रभासश्च सूर्यप्रभबले ऽकरोत् ॥
वज्रव्यूहं प्रभासश्च सूर्यप्रभबले ऽकरोत् ॥
Summary
AI
Dāmodara arranged the forces of Śrutaśarman into the Discus Formation (Cakravyūha), while Prabhāsa organized Sūryaprabha's army into the Thunderbolt Formation (Vajravyūha).
८.५.४
ततः प्रववृते युद्धं तयोरुभयसैन्ययोः ।
तूर्यैः सुभटनादैश्च बधिरीकृतदिक्तटम् ॥
तूर्यैः सुभटनादैश्च बधिरीकृतदिक्तटम् ॥
Summary
AI
Then, the battle between the two armies commenced, deafening the horizons with the blaring of trumpets and the thunderous war cries of the heroic warriors.
८.५.५
सम्यक्छस्त्रहताः शूरा भिन्दन्ति मम मण्डलम् ।
इतीव शरजालान्तश्छन्नो भानुरभूद्भिया ॥
इतीव शरजालान्तश्छन्नो भानुरभूद्भिया ॥
Summary
AI
Fearing that the brave warriors, slain by weapons, would pierce through his solar orb to reach heaven, the sun appeared to hide behind a veil of countless arrows out of fear.
८.५.६
दामोदरकृतं चक्रव्युहमन्येन दुर्भिदम् ।
भित्त्वा प्रभासः प्राविक्षदथ सूर्यप्रभाज्ञया ॥
भित्त्वा प्रभासः प्राविक्षदथ सूर्यप्रभाज्ञया ॥
Summary
AI
Then, by the command of Sūryaprabha, Prabhāsa broke through the Discus Formation created by Dāmodara, which was otherwise impenetrable to others, and entered within.
८.५.७
तं च दामोदरो व्यूहच्छिद्रमेत्यावृणोत्स्वयम् ।
प्रभासो ययुधे तं च तत्रैकरथ एव सः ॥
प्रभासो ययुधे तं च तत्रैकरथ एव सः ॥
Summary
AI
Dāmodara himself stepped forward to close the breach in the formation; there, Prabhāsa, fighting from a single chariot, engaged him in combat.
८.५.८
प्रविष्टमेककं तं च दृष्ट्वा सूर्यप्रभो ऽथ सः ।
पश्चात्पञ्चदशैतस्य विससर्ज महारथान् ॥
पश्चात्पञ्चदशैतस्य विससर्ज महारथान् ॥
Summary
AI
Seeing that Prabhāsa had entered the formation alone, Sūryaprabha dispatched fifteen great chariot-warriors to follow and support him.
८.५.९
प्रकम्पनं धूमकेतुं कालकम्पनकं तथा ।
महामायं मरुद्वेगं प्रहस्तं वज्रपञ्जरम् ॥
महामायं मरुद्वेगं प्रहस्तं वज्रपञ्जरम् ॥
Summary
AI
These warriors included the mighty Prakampana, Dhūmaketu, Kālakampanaka, Mahāmāya, Marudvega, Prahasta, and Vajrapañjara.
८.५.१०
कालचक्रं प्रमथनं सिंहनादं सकम्बलम् ।
विकटाक्षं प्रवहणं तं कुञ्जरकुमारकम् ॥
विकटाक्षं प्रवहणं तं कुञ्जरकुमारकम् ॥
Summary
AI
Also sent were the formidable Kālacakra, Pramathana, Siṃhanāda, Kambala, Vikaṭākṣa, Pravahaṇa, and the young Kuñjarakumāra.
८.५.११
तं च प्रहृष्टरोमाणमसुराधिपसत्तमम् ।
ते प्रधाव्य ययुः सर्वे व्यूहद्वारं महारथाः ॥
ते प्रधाव्य ययुः सर्वे व्यूहद्वारं महारथाः ॥
Summary
AI
All those great chariot-warriors rushed toward the entrance of the formation to reach the noble lord of the Asuras, Prabhāsa, whose hair stood on end with battle-excitement.
८.५.१२
तत्र दामोदरो पूर्वं स्वपौरुषमदर्शयत् ।
यदेक एव युयुधे तैः पञ्चदशभिः सह ॥
यदेक एव युयुधे तैः पञ्चदशभिः सह ॥
Summary
AI
There, Dāmodara displayed unparalleled valor as he fought single-handedly against all fifteen of those great warriors simultaneously.
८.५.१३
तद्दृष्ट्वा नारदमुनिं पार्श्वस्थं वासवो ऽभ्यधत् ।
सूर्यप्रभाद्या असुरावतारा अखिलास्तथा ॥
सूर्यप्रभाद्या असुरावतारा अखिलास्तथा ॥
Summary
AI
Seeing this, Vāsava (Indra) remarked to the sage Nārada standing beside him that Sūryaprabha and all his followers were incarnations of the Asuras.
८.५.१४
श्रुतशर्मा मदंशश्च सर्वे विद्याधरा इमे ।
देवांशास्तदयं युक्त्या मुने देवासुराहवः ॥
देवांशास्तदयं युक्त्या मुने देवासुराहवः ॥
Summary
AI
Śrutaśarman is a portion of myself, and all these Vidyādharas are portions of the gods; therefore, O Sage, this is truly a battle between the gods and the demons.
८.५.१५
तस्मिंश्च पश्य देवानां सहायः सर्वदा हरिः ।
दामोदरस्तदंशो ऽयमेवं तदिह युध्यते ॥
दामोदरस्तदंशो ऽयमेवं तदिह युध्यते ॥
Summary
AI
Moreover, behold how Hari (Viṣṇu) is ever the ally of the gods; this Dāmodara is a partial incarnation of him, which explains why he fights with such extraordinary power here.
८.५.१६
एवं शक्रे वदत्यस्य दामोदरचमूपतेः ।
महारथाः समाजग्मुः साहाय्याय चतुर्दश ॥
महारथाः समाजग्मुः साहाय्याय चतुर्दश ॥
Summary
AI
While Śakra (Indra) was speaking thus, fourteen great chariot-warriors arrived to assist the commander Dāmodara against his opponents.
८.५.१७
ब्रह्मगुप्तो वायुबलो यमदंष्ट्रः सुरोषणः ।
रोषावरोहो ऽतिबलस्तेजःप्रभधुरंधरौ ॥
रोषावरोहो ऽतिबलस्तेजःप्रभधुरंधरौ ॥
Summary
AI
These reinforcement heroes included Brahmagupta, Vāyubala, Yamadaṃṣṭra, Suroṣaṇa, Roṣāvaroha, Atibala, Tejaḥprabha, and Dhuraṃdhara.
८.५.१८
कुबेरदत्तो वरुणशर्मा कम्बलिकस्तथा ।
वीरश्च दुष्टमदनो दोहनारोहणावुभौ ॥
वीरश्च दुष्टमदनो दोहनारोहणावुभौ ॥
Summary
AI
The others were Kuberadatta, Varuṇaśarman, Kambalika, the hero Duṣṭamadana, and the two warriors Dohana and Ārohaṇa.
८.५.१९
दामोदरयुतास्ते ऽपि वीराः पञ्चदशैव तान् ।
सूर्यप्रभीयान्रुरुधुर्वीरान्व्यूहाग्रयोधिनः ॥
सूर्यप्रभीयान्रुरुधुर्वीरान्व्यूहाग्रयोधिनः ॥
Summary
AI
These fifteen heroes, joined with Dāmodara, checked the advance of Sūryaprabha's warriors who were fighting at the front of the formation.
८.५.२०
ततो ऽत्र द्वन्द्वयुद्धानि तेषामासन्परस्परम् ।
दामोदरेणास्त्रयुद्धं समं चक्रे प्रकम्पनः ॥
दामोदरेणास्त्रयुद्धं समं चक्रे प्रकम्पनः ॥
Summary
AI
Consequently, various dual combats broke out among them on the battlefield; specifically, Prakampana engaged in a fierce duel of celestial missiles with Dāmodara.
८.५.२१
ब्रह्मदत्तेन च समं धूमकेतुरयुध्यत ।
महामायस्तु युयुधे सहैवातिबलेन च ॥
महामायस्तु युयुधे सहैवातिबलेन च ॥
Summary
AI
Dhūmaketu fought with Brahmadatta, while Mahāmāya engaged in battle with Atibala.
८.५.२२
तेजःप्रभेण युयुधे दानवः कालकम्पनः ।
सह वायुबलेनापि मरुद्वेगो महासुरः ॥
सह वायुबलेनापि मरुद्वेगो महासुरः ॥
Summary
AI
The Dānava Kālakampana fought with Tejaḥprabha, and the great Asura Marudvega battled with Vāyubala.
८.५.२३
यमदंष्ट्रेण च समं युयुधे वज्रपञ्जरः ।
समं सुरोषणेनापि कालचक्रो ऽसुरोत्तमः ॥
समं सुरोषणेनापि कालचक्रो ऽसुरोत्तमः ॥
Summary
AI
Vajrapañjara fought alongside Yamadāṃṣṭra, and the supreme Asura Kālacakra contended with Suroṣaṇa.
८.५.२४
साकं कुबेरदत्तेन युद्धं प्रमथनो व्यधात् ।
सिंहनादश्च दैत्येन्द्रः समं वरुणशर्मणा ॥
सिंहनादश्च दैत्येन्द्रः समं वरुणशर्मणा ॥
Summary
AI
Pramathana waged war against Kuberadatta, and the Daitya lord Siṃhanāda fought with Varuṇaśarman.
८.५.२५
युद्धं प्रवहणो दुष्टदमनेन सहाकरोत् ।
प्रहृष्टरोमा रोषावरोहेणापि च दानवः ॥
प्रहृष्टरोमा रोषावरोहेणापि च दानवः ॥
Summary
AI
Pravahaṇa fought against Duṣṭadamana, and the Dānava Prahṛṣṭaroman battled with Roṣāvaroha.
८.५.२६
धुरंधरेण च समं विकटाक्षो व्यधाद्युधम् ।
युद्धं कम्बलिकश्चक्रे समं कम्बलिकेन च ॥
युद्धं कम्बलिकश्चक्रे समं कम्बलिकेन च ॥
Summary
AI
Vikaṭākṣa engaged in battle with Dhurandhara, and Kambalika fought against Kambalika.
८.५.२७
आरोहणेन च समं स कुञ्जरकुमारकः ।
महोत्पातापराख्येण प्रहस्तो दोहनेन च ॥
महोत्पातापराख्येण प्रहस्तो दोहनेन च ॥
Summary
AI
Kuñjarakumāraka fought with Ārohaṇa, and Prahasta, also known as Mahotpāta, battled with Dohana.
८.५.२८
एवं महारथद्वन्द्वेष्वेषु तत्र परस्परम् ।
व्यूहाग्रे युध्यमानेषु सुनीथो मयमभ्यधात् ॥
व्यूहाग्रे युध्यमानेषु सुनीथो मयमभ्यधात् ॥
Summary
AI
While these pairs of great chariot-warriors were fighting each other at the front of the battle array, Sunītha spoke to Maya.
८.५.२९
कष्टमस्मद्रथाः शूरा नानायुद्धविदो ऽप्यमी ।
रुद्धाः प्रतिरथैरेतैः पश्य व्यूहप्रवेशतः ॥
रुद्धाः प्रतिरथैरेतैः पश्य व्यूहप्रवेशतः ॥
Summary
AI
"Look! Though our heroic chariot-warriors are experts in various modes of warfare, they have been blocked by these opposing warriors from entering the formation. This is distressing."
८.५.३०
प्रभासश्चैक एवाग्रे प्रविष्टो ऽत्राविचारितम् ।
तन्न जानीमहे कस्य किमिवात्र भविष्यति ॥
तन्न जानीमहे कस्य किमिवात्र भविष्यति ॥
Summary
AI
Only Prabhāsa has entered the front without hesitation. We do not know what will happen to whom in this situation.
८.५.३१
एतच्छ्रुत्वा ब्रवीति स्म तं सुवासकुमारकः ।
त्रैलोक्ये ऽपि न पर्याप्ताः ससुरासुरमानुषाः ॥
त्रैलोक्ये ऽपि न पर्याप्ताः ससुरासुरमानुषाः ॥
Summary
AI
Hearing this, the young son of Suvāsa said to him, "Even the inhabitants of the three worlds, including gods, demons, and humans, are not sufficient to oppose him."
८.५.३२
एकस्यास्य प्रभासस्य किं पुनः खेचरा इमे ।
तदेषा कथमस्थाने शङ्का वो जानतामपि ॥
तदेषा कथमस्थाने शङ्का वो जानतामपि ॥
Summary
AI
"Against this Prabhāsa alone, what can these sky-dwellers possibly do? How is it that such doubt arises in you, even though you are wise?"
८.५.३३
एवं मुनिकुमारे ऽस्मिन्ब्रुवाणे कालकम्पनः ।
विद्याधरः प्रभासस्य युधि संमुखमाययौ ॥
विद्याधरः प्रभासस्य युधि संमुखमाययौ ॥
Summary
AI
While the son of the sage was speaking thus, the Vidyādhara Kālakampana came forward to face Prabhāsa in battle.
८.५.३४
ततः प्रभासो ऽवादीत्तं रे रे ह्यपकृतं त्वया ।
अतीव नस्तदद्येह पश्यामस्तव पौरुषम् ॥
अतीव नस्तदद्येह पश्यामस्तव पौरुषम् ॥
Summary
AI
Then Prabhāsa said to him: "O you! You have done us a great injury. Now we shall see your prowess here today."
८.५.३५
इत्युक्त्वा व्यसृजत्तस्मिन्प्रभासो विशिखावलिम् ।
सो ऽपि तं सायकैः कालकम्पनो ऽवाकिरच्छितैः ॥
सो ऽपि तं सायकैः कालकम्पनो ऽवाकिरच्छितैः ॥
Summary
AI
Saying this, Prabhāsa discharged a volley of arrows at him. Kālakampana also covered him with sharp shafts.
८.५.३६
अस्त्रप्रत्यस्त्रयुद्धेन युयुधाते मिथस्ततः ।
प्रदत्तभुवनाश्चर्यौ तौ विद्याधरमानुषौ ॥
प्रदत्तभुवनाश्चर्यौ तौ विद्याधरमानुषौ ॥
Summary
AI
Then, causing wonder to the whole world, the Vidyādhara and the human fought each other with missiles and counter-missiles.
८.५.३७
अथ प्रभासो विशिखेनैकेनापातयद्ध्वजम् ।
द्वितीयेनावधीत्कालकम्पनस्य च सारथिम् ॥
द्वितीयेनावधीत्कालकम्पनस्य च सारथिम् ॥
Summary
AI
Then Prabhāsa felled the enemy's banner with one arrow and killed Kālakampana's charioteer with a second one.
८.५.३८
चतुर्भिश्चतुरश्चाश्वान्धनुरेकेन चाच्छिनत् ।
द्वभ्यां हस्तौ भुजौ द्वाभ्यां द्वाभ्यां च श्रवणावुभौ ॥
द्वभ्यां हस्तौ भुजौ द्वाभ्यां द्वाभ्यां च श्रवणावुभौ ॥
Summary
AI
With four arrows he slew the four horses, and with one he cut the bow. With two arrows he severed the hands, with two more the arms, and with another two both ears.
८.५.३९
एकेन शितधारेण शिरश्चिच्छेद तस्य च ।
प्रभासः पत्त्रिणा शत्रोर्दर्शिताद्भुतलाघवः ॥
प्रभासः पत्त्रिणा शत्रोर्दर्शिताद्भुतलाघवः ॥
Summary
AI
Displaying wonderful dexterity, Prabhāsa cut off the enemy's head with a single sharp-edged arrow.
८.५.४०
एवं प्राङ्निहितानेकप्रवीरोत्थेन मन्युना ।
प्रभासो निग्रहं कालकम्पनस्य व्यधादिव ॥
प्रभासो निग्रहं कालकम्पनस्य व्यधादिव ॥
Summary
AI
Thus, driven by the wrath arising from the death of many heroes previously slain, Prabhāsa seemed to execute a ritual punishment upon Kālakampana.
८.५.४१
दृष्ट्वा च तं हतं विद्याधरेशं मनुजासुरैः ।
नादश्चक्रे विषादश्च जग्मे सपदि खेचरैः ॥
नादश्चक्रे विषादश्च जग्मे सपदि खेचरैः ॥
Summary
AI
Upon seeing the Vidyādhara lord slain by the mortals and Asuras, the sky-dwellers raised a cry, and despair instantly spread among them.
८.५.४२
ततो विद्युत्प्रभो नाम कालञ्जरगिरीश्वरः ।
प्रभासमभ्यधावत्तं क्रुधा विद्याधराधिपः ॥
प्रभासमभ्यधावत्तं क्रुधा विद्याधराधिपः ॥
Summary
AI
Then, the Vidyādhara chief named Vidyutprabha, the lord of Mount Kālañjara, rushed towards Prabhāsa in a fit of rage.
८.५.४३
तस्यापि युध्यमानस्य प्रभासः स महाध्वजम् ।
छित्त्वा चकर्त कोदण्डमात्तमात्तं पुनः पुनः ॥
छित्त्वा चकर्त कोदण्डमात्तमात्तं पुनः पुनः ॥
Summary
AI
While Vidyutprabha fought, Prabhāsa severed his great banner and repeatedly cut down his bow every time he took it up.
८.५.४४
ततः स माययोत्पत्य च्छन्नो विद्युत्प्रभो नभः ।
प्रभासस्योपरि ह्रीतो ववर्षासिगदादिकान् ॥
प्रभासस्योपरि ह्रीतो ववर्षासिगदादिकान् ॥
Summary
AI
Ashamed, Vidyutprabha used his illusory powers to ascend into the sky. Hidden from view, he rained down swords, clubs, and other weapons upon Prabhāsa.
८.५.४५
प्रभासो ऽपि विधूयास्त्रैस्तदायुधपरम्पराम् ।
कृत्वा प्रकाशनास्त्रेण प्रकाशं तं नभश्चरम् ॥
कृत्वा प्रकाशनास्त्रेण प्रकाशं तं नभश्चरम् ॥
Summary
AI
Prabhāsa warded off the shower of weapons with his own missiles and used a light-producing weapon to reveal the hidden sky-dweller.
८.५.४६
दत्त्वा महास्त्रमाग्नेयं तत्तेजोदग्धमम्बरात् ।
विद्युत्प्रभं भूमितले गतजीवमपातयत् ॥
विद्युत्प्रभं भूमितले गतजीवमपातयत् ॥
Summary
AI
Discharging a powerful fire-missile (āgneyāstra), Prabhāsa struck Vidyutprabha, burning him with its brilliance and felling his lifeless body from the sky to the earth.
८.५.४७
तद्दृष्ट्वा श्रुतशर्मा तान्निजगाद महारथान् ।
पश्यतानेन निहतौ द्वौ महारथयूथपौ ॥
पश्यतानेन निहतौ द्वौ महारथयूथपौ ॥
Summary
AI
Observing this, Śrutaśarman addressed his great warriors, pointing out that Prabhāsa had already slain two of their great commanders.
८.५.४८
तत्किं सहध्वे संभूय युष्माभिर्हन्यतामयम् ।
तच्छ्रुत्वाष्टौ रथाः क्रुद्धाः प्रभासं पर्यवारयन् ॥
तच्छ्रुत्वाष्टौ रथाः क्रुद्धाः प्रभासं पर्यवारयन् ॥
Summary
AI
"Why do you tolerate this? Let him be killed by all of you together!" Upon hearing this, eight chariot-warriors angrily surrounded Prabhāsa.
८.५.४९
एकः कङ्कटकाद्रीन्द्रनिवासी रथयूथपः ।
ऊर्ध्वरोमेति विख्यातो विद्याधरमहीपतिः ॥
ऊर्ध्वरोमेति विख्यातो विद्याधरमहीपतिः ॥
Summary
AI
One was the Vidyādhara king Ūrdhvaroman, a commander of chariot forces who resided on Mount Kaṅkaṭaka.
॥ इति पञ्चमः तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.