द्वितीयस्तरङ्गः ।
८.२.१
अथ तत्रैकदास्थानस्थिते चन्द्रप्रभे नृपे ।
सूर्यप्रभे च तत्रस्थे समग्रसचिवान्विते ॥
सूर्यप्रभे च तत्रस्थे समग्रसचिवान्विते ॥
Summary
AI
Once, while King Candraprabha was seated in his court and Sūryaprabha remained there accompanied by all his ministers.
८.२.२
सिद्धार्थोदीरितकथाप्रसङ्गेन मये स्मृते ।
अकस्मादत्र वसुधा सभामध्ये व्यदीर्यत ॥
अकस्मादत्र वसुधा सभामध्ये व्यदीर्यत ॥
Summary
AI
As Maya was remembered during the course of a story told by Siddhārtha, the earth suddenly split open in the middle of the assembly hall.
८.२.३
ततो भूविवरादादौ सशब्दः सुरभिर्मरुत् ।
आविरासीत्ततः पश्चादुज्जगाम मयासुरः ॥
आविरासीत्ततः पश्चादुज्जगाम मयासुरः ॥
Summary
AI
First, a fragrant breeze emerged with a sound from the fissure in the earth, and then the demon Maya rose up from within.
८.२.४
कृष्णोन्नतशिरः शृङ्गज्वलत्केशमहौषधिः ।
रक्ताम्बरोच्छलद्धातुर्निशायामिव पर्वतः ॥
रक्ताम्बरोच्छलद्धातुर्निशायामिव पर्वतः ॥
Summary
AI
With his tall black head like a mountain peak, hair like blazing medicinal herbs, and red garments like flowing minerals, he appeared like a mountain at night.
८.२.५
यथार्हकृतपूजश्च राज्ञा चन्द्रप्रभेण सः ।
रत्नासनोपविष्टः सन्दानवेन्द्रो ऽभ्यभाषत ॥
रत्नासनोपविष्टः सन्दानवेन्द्रो ऽभ्यभाषत ॥
Summary
AI
Having been duly honored by King Candraprabha, the lord of the Dānavas sat upon a jeweled throne and spoke.
८.२.६
भुक्ता भोगा इमे भौमा भवद्भिरधुना च वः ।
कालो ऽन्येषां तदुद्योगे मतिं कुरुत सांप्रतम् ॥
कालो ऽन्येषां तदुद्योगे मतिं कुरुत सांप्रतम् ॥
Summary
AI
You have enjoyed these earthly pleasures; now the time for other attainments has come for you. Therefore, focus your mind on that endeavor at present.
८.२.७
दूतान्प्रेष्यानयध्वं स्वान्नृपान्संबन्धिबान्धवान् ।
ततो विद्याधरेन्द्रेण मिलिष्यामः सुमेरुणा ॥
ततो विद्याधरेन्द्रेण मिलिष्यामः सुमेरुणा ॥
Summary
AI
Send messengers and summon your kings, relatives, and kinsmen; then we shall join with Sumeru, the lord of the Vidyādharas.
८.२.८
जेष्यामः श्रुतशर्माणं प्राप्स्यामः खचरश्रियम् ।
सुमेरुश्च सहायत्वे बन्धुबुद्ध्या स्थितो ऽत्र नः ॥
सुमेरुश्च सहायत्वे बन्धुबुद्ध्या स्थितो ऽत्र नः ॥
Summary
AI
We shall conquer Śrutaśarman and attain the sovereignty of the sky-dwellers. Sumeru stands here as our ally out of a sense of kinship.
८.२.९
रक्षेः सूर्यप्रभं दद्यास्त्वं चैतस्मै निजां सुताम् ।
इत्यादावेव देवेन स ह्यादिष्टः पिनाकिना ॥
इत्यादावेव देवेन स ह्यादिष्टः पिनाकिना ॥
Summary
AI
"You must protect Sūryaprabha and give him your own daughter." This was the instruction given to him by the god Pinākin (Śiva) at the very beginning.
८.२.१०
एवं मयासुरेणोक्ते प्रहस्तादीन्स खेचरान् ।
चन्द्रप्रभः प्रहितवान्दूतान्सर्वमहीभृताम् ॥
चन्द्रप्रभः प्रहितवान्दूतान्सर्वमहीभृताम् ॥
Summary
AI
When Maya the Asura had spoken thus, Candraprabha dispatched Prahasta and other sky-dwellers as messengers to all the kings of the earth.
८.२.११
सूर्यप्रभश्च विद्याभिः स्वभार्यामन्त्रिणो ऽखिलान् ।
संविभेजे मयादेशात्संविभक्ता न ये पुरा ॥
संविभेजे मयादेशात्संविभक्ता न ये पुरा ॥
Summary
AI
By the order of Maya, Sūryaprabha shared his magic sciences with all his wives and ministers who had not previously received them.
८.२.१२
तावच्चात्र स्थितेष्वेव प्रभाभासितदिङ्मुखः ।
अवतीर्याम्बरतलान्नारदो मुनिराययौ ॥
अवतीर्याम्बरतलान्नारदो मुनिराययौ ॥
Summary
AI
While they were still there, the sage Nārada descended from the sky, illuminating the quarters of the heavens with his radiance, and arrived.
८.२.१३
गृहीतार्घोपविष्टश्च स चन्द्रप्रभमब्रवीत् ।
प्रेषितो ऽहमिहेन्द्रेण तेन चोक्तमिदं तव ॥
प्रेषितो ऽहमिहेन्द्रेण तेन चोक्तमिदं तव ॥
Summary
AI
Having accepted the offering of honor and being seated, he said to Candraprabha, "I have been sent here by Indra, and he has spoken this message for you."
८.२.१४
ज्ञातं मया यद्युष्माभिर्महेश्वरनिदेशतः ।
मयासुरसखैः सूर्यप्रभस्याज्ञानमोहितैः ॥
मयासुरसखैः सूर्यप्रभस्याज्ञानमोहितैः ॥
Summary
AI
Indra informs the assembly that he is aware of how they, as friends of the Asura Maya and deluded by ignorance, are acting under the direction of Maheśvara regarding Sūryaprabha.
८.२.१५
अस्य मर्त्यशरीरस्य संसाधयितुमिष्यते ।
सर्वविद्याधराधीशचक्रवर्तिपदं महत् ॥
सर्वविद्याधराधीशचक्रवर्तिपदं महत् ॥
Summary
AI
Indra continues that they wish to secure the great sovereign position of emperor over all Vidyādharas for Sūryaprabha, despite him possessing a mortal body.
८.२.१६
तदयुक्तं यदस्माभिर्दत्तं हि श्रुतशर्मणे ।
विद्याधरकुलाब्धीन्दोस्तच्च तस्य क्रमागतम् ॥
विद्याधरकुलाब्धीन्दोस्तच्च तस्य क्रमागतम् ॥
Summary
AI
Indra states that this is improper because that position was given by the gods to Śrutaśarman, the moon of the Vidyādhara race, and it belongs to him by hereditary succession.
८.२.१७
अस्माकं प्रातिपक्ष्येण धर्मबाधेन चैव यत् ।
कुरुध्वे तद्विनाशाय निश्चितं वः प्रकल्पते ॥
कुरुध्वे तद्विनाशाय निश्चितं वः प्रकल्पते ॥
Summary
AI
Indra warns that whatever they do in opposition to the gods and in violation of righteousness will certainly result in their destruction.
८.२.१८
पूर्वं च रुद्रयज्ञेन यजमानो भवान्मया ।
प्राग्यजस्वाश्वमेधेनेत्युक्ते च कृतवान्न तम् ॥
प्राग्यजस्वाश्वमेधेनेत्युक्ते च कृतवान्न तम् ॥
Summary
AI
Indra reminds Candraprabha that in the past, while performing a sacrifice to Rudra, he ignored Nārada's advice to first perform the Aśvamedha sacrifice.
८.२.१९
तद्देवाननपेक्ष्यैव रुद्रप्रत्याशयैकया ।
यदाचरथ दर्पेण भवतां न शिवाय तत् ॥
यदाचरथ दर्पेण भवतां न शिवाय तत् ॥
Summary
AI
Indra concludes that whatever they perform out of pride, disregarding the gods and relying solely on hope in Rudra, will not lead to their well-being.
८.२.२०
इत्युक्ते शक्रसंदेशे नारदेन विहस्य तम् ।
मयो ऽवादीन्न साधूक्तं सुरेन्द्रेण महामुने ॥
मयो ऽवादीन्न साधूक्तं सुरेन्द्रेण महामुने ॥
Summary
AI
When Nārada had thus delivered Indra's message, Maya laughed and said to him that the lord of the gods had not spoken well.
८.२.२१
सूर्यप्रभस्य मर्त्यत्वं यद्वक्ति तदपार्थकम् ।
तद्दामोदरसङ्ग्रामे न ज्ञातं तेन तस्य किम् ॥
तद्दामोदरसङ्ग्रामे न ज्ञातं तेन तस्य किम् ॥
Summary
AI
Maya asserts that calling Sūryaprabha a mortal is meaningless. He questions whether Sūryaprabha's true power was not already witnessed by Indra during the battle with Dāmodara.
८.२.२२
मर्त्या एव हि सत्त्वाढ्याः सर्वसिद्ध्यधिकारिणः ।
ऐन्द्रं न साधितं पूर्वं पदं किं नहुषादिभिः ॥
ऐन्द्रं न साधितं पूर्वं पदं किं नहुषादिभिः ॥
Summary
AI
Brave mortals are indeed eligible for all great achievements. Did not Nahuṣa and other mortals attain the status of Indra in ancient times?
८.२.२३
यच्चाह दत्तमस्माभिः साम्राज्यं श्रुतशर्मणे ।
क्रमागतं च तत्तस्येत्येतदप्यसमञ्जसम् ॥
क्रमागतं च तत्तस्येत्येतदप्यसमञ्जसम् ॥
Summary
AI
The argument that the empire was bestowed upon Śrutaśarman by the gods and belongs to him by lineage is also logically unsound.
८.२.२४
दाता महेश्वरो यत्र प्रामाण्यं तत्र कस्य किम् ।
ज्येष्ठागतं हिरण्याक्षस्येन्द्रत्वं च कथं हृतम् ॥
ज्येष्ठागतं हिरण्याक्षस्येन्द्रत्वं च कथं हृतम् ॥
Summary
AI
When Maheśvara himself is the giver, no other authority matters. Furthermore, if lineage were absolute, how was the position of Indra taken from Hiraṇyākṣa despite his seniority?
८.२.२५
यच्चापरं प्रातिपक्ष्यमधर्मं चाह तन्मृषा ।
स एव हि हठात्स्वार्थे प्रातिपक्ष्यं करोति नः ॥
स एव हि हठात्स्वार्थे प्रातिपक्ष्यं करोति नः ॥
Summary
AI
The claims regarding our hostility and unrighteousness are false. It is Indra who, driven by self-interest, forcibly creates opposition against us.
८.२.२६
कश्चाधर्मो जिगीषामो वयं हि परिपन्थिनम् ।
न हरामो मुनेर्भार्यां ब्रह्महत्यां न कुर्महे ॥
न हरामो मुनेर्भार्यां ब्रह्महत्यां न कुर्महे ॥
Summary
AI
What is unrighteous about seeking to conquer an opponent? We do not abduct the wives of sages, nor do we commit the sin of killing a brāhmaṇa.
८.२.२७
यच्चाश्वमेधाकरणं देवावज्ञां च जल्पति ।
तदसद्रुद्रयज्ञे हि विहिते ऽन्यैः किमध्वरैः ॥
तदसद्रुद्रयज्ञे हि विहिते ऽन्यैः किमध्वरैः ॥
Summary
AI
The accusation regarding the omission of Aśvamedha sacrifices and disrespect toward the gods is baseless. When a sacrifice to Rudra is performed, no other rituals are necessary.
८.२.२८
अर्चिते देवदेवे च शंभौ देवो न को ऽर्चितः ।
यच्चाहैकैव रुद्रास्था न शिवेति तदप्यसत् ॥
यच्चाहैकैव रुद्रास्था न शिवेति तदप्यसत् ॥
Summary
AI
By worshipping Śambhu, the God of gods, every deity is honored. The claim that exclusive devotion to Rudra is inauspicious is entirely false.
८.२.२९
किं तत्र देवनिवहैरन्यैर्यत्रोद्यतो हरः ।
रवावभ्युदिते ऽन्यानि किं तेजांसि चकासति ॥
रवावभ्युदिते ऽन्यानि किं तेजांसि चकासति ॥
Summary
AI
When Hara is prepared to act, what is the need for other groups of gods? Do other lights continue to shine once the sun has risen?
८.२.३०
तदेतद्देवराजाय सर्वं वाच्यं त्वया मुने ।
वयं च प्रस्तुतं कुर्मः स यद्वेत्ति करोतु तत् ॥
वयं च प्रस्तुतं कुर्मः स यद्वेत्ति करोतु तत् ॥
Summary
AI
O Sage, relay all this to the King of the gods. We shall proceed with our preparations; let Indra do as he deems fit.
८.२.३१
एवं मयासुरेणोक्तो नारदर्षिस्तथेति तम् ।
प्रतिसंदेशमादाय ययौ सुरपतिं प्रति ॥
प्रतिसंदेशमादाय ययौ सुरपतिं प्रति ॥
Summary
AI
After being addressed this way by Mayāsura, the sage Nārada agreed and, taking the counter-message, departed to meet the Lord of the gods.
८.२.३२
गते तस्मिन्मुनौ सो ऽत्र तं चन्द्रप्रभभूपतिम् ।
शक्रसंदेशसाशङ्कमुवाचैवं मयासुरः ॥
शक्रसंदेशसाशङ्कमुवाचैवं मयासुरः ॥
Summary
AI
Once the sage had left, Mayāsura spoke to King Candraprabha, who was feeling anxious about the message received from Śakra.
८.२.३३
न शक्राद्वो भयं कार्यं स च स्याच्छ्रुतशर्मणः ।
पक्षे देवगणैः सार्धमस्मद्द्वेषेण संयुगे ॥
पक्षे देवगणैः सार्धमस्मद्द्वेषेण संयुगे ॥
Summary
AI
You should not fear Śakra. Driven by his hatred for us, he will surely join the side of Śrutaśarman in the upcoming battle along with the hosts of gods.
८.२.३४
तदसंख्या महाराज प्रह्लादाधिष्ठिता वयम् ।
युष्मत्पक्षे स्थिता एव सहिता दैत्यदानवैः ॥
युष्मत्पक्षे स्थिता एव सहिता दैत्यदानवैः ॥
Summary
AI
O Great King, know that we, led by the countless forces of Prahlāda and joined by the Daityas and Dānavas, stand firmly on your side.
८.२.३५
कृतप्रसादे चास्माकमुद्युक्ते त्रिपुरान्तके ।
वराकस्यापरस्यास्ति कस्य शक्तिर्जगत्त्रये ॥
वराकस्यापरस्यास्ति कस्य शक्तिर्जगत्त्रये ॥
Summary
AI
With Tripurāntaka favoring us and ready for action, what power does any other pathetic creature in the three worlds possess against us?
८.२.३६
तद्वीराः कुरुतोद्योगं कार्ये ऽस्मिन्नित्युदीरिते ।
मयेन हृष्टाः सर्वे ते तत्तथैवेति मेनिरे ॥
मयेन हृष्टाः सर्वे ते तत्तथैवेति मेनिरे ॥
Summary
AI
When Maya urged the heroes to prepare for the task, they all rejoiced and accepted his words, agreeing to the plan.
८.२.३७
अथ दूतोक्तसंदेशात्सर्वे तत्राययुः क्रमात् ।
नृपा वीरभटाद्यास्ते ये चान्ये मित्त्रबान्धवाः ॥
नृपा वीरभटाद्यास्ते ये चान्ये मित्त्रबान्धवाः ॥
Summary
AI
Following the message delivered by the envoy, all those kings, heroic warriors, friends, and kinsmen arrived at the location in succession.
८.२.३८
कृतोचितसपर्येषु ससैन्येष्वेषु राजसु ।
पुनश्चन्द्रप्रभं भूपमुवाचैवं मयासुरः ॥
पुनश्चन्द्रप्रभं भूपमुवाचैवं मयासुरः ॥
Summary
AI
Once these kings and their armies had been received with proper honors, Mayāsura spoke once more to King Candraprabha.
८.२.३९
कुरुध्वमद्य रुद्रस्य रात्रौ राजन्महाबलिम् ।
ततो यथाहं वक्ष्यामि तथा सर्वं विधास्यथ ॥
ततो यथाहं वक्ष्यामि तथा सर्वं विधास्यथ ॥
Summary
AI
He instructed the King to perform a grand offering to Rudra that night, promising to provide further directions afterward.
८.२.४०
एतन्मयवचः श्रुत्वा राजा चन्द्रप्रभो ऽथ सः ।
रुद्रस्य बलिसंभारं कारयामास तत्क्षणम् ॥
रुद्रस्य बलिसंभारं कारयामास तत्क्षणम् ॥
Summary
AI
Upon hearing Maya's words, King Candraprabha immediately ordered the preparations for the great offering to Rudra.
८.२.४१
ततो गत्वाटवीं रात्रौ मये कर्मोपदेष्टरि ।
चन्द्रप्रभः स्वयं चक्रे बलिं रुद्रस्य भक्तितः ॥
चन्द्रप्रभः स्वयं चक्रे बलिं रुद्रस्य भक्तितः ॥
Summary
AI
Then, after going into the forest at night while Maya acted as the director of the ritual, Candraprabha personally performed an offering to Rudra with devotion.
८.२.४२
होमकर्मप्रवृत्ते च राज्ञि तस्मिन्नशङ्कितम् ।
साक्षादाविरभूत्तत्र नन्दी भूतगणाधिपः ॥
साक्षादाविरभूत्तत्र नन्दी भूतगणाधिपः ॥
Summary
AI
While the king was engaged in the sacrificial ritual, Nandin, the lord of the bhūta hosts, suddenly and visibly appeared right there.
८.२.४३
सो ऽर्चितो विधिवद्राज्ञा प्रहृष्टेनेदमब्रवीत् ।
मन्मुखेनेदमादिष्टं स्वयं देवेन शंभुना ॥
मन्मुखेनेदमादिष्टं स्वयं देवेन शंभुना ॥
Summary
AI
Worshiped according to tradition by the delighted king, Nandin said, "Lord Śambhu himself has commanded this through my mouth."
८.२.४४
अपि शक्रशतान्माभूद्भयं वो मत्प्रसादतः ।
सूर्यप्रभश्चक्रवर्ती भवितैव द्युचारिणाम् ॥
सूर्यप्रभश्चक्रवर्ती भवितैव द्युचारिणाम् ॥
Summary
AI
"By my grace, let there be no fear for you even from a hundred Śakras. Sūryaprabha shall certainly become the sovereign of the sky-dwellers."
८.२.४५
इत्युक्तशंकरादेशो गृहीतबलिभागकः ।
नन्दीश्वरो भूतगणैः सह तत्र तिरोदधे ॥
नन्दीश्वरो भूतगणैः सह तत्र तिरोदधे ॥
Summary
AI
Having delivered Śaṅkara's command and accepted his portion of the offering, Lord Nandīśvara vanished from that place along with the bhūta hosts.
८.२.४६
ततश्चन्द्रप्रभो जातप्रत्ययस्तनयोदये ।
बलिं समाप्य होमान्ते विवेश समयः पुरम् ॥
बलिं समाप्य होमान्ते विवेश समयः पुरम् ॥
Summary
AI
Then Candraprabha, having gained confidence in his son's rise, completed the offering and, at the end of the sacrifice, entered the city in due time.
८.२.४७
प्रातश्च देव्या पुत्रेण राजभिः सचिवैर्युतम् ।
एकान्तस्थं च तं चन्द्रप्रभभूपं मयो ऽभ्यधात् ॥
एकान्तस्थं च तं चन्द्रप्रभभूपं मयो ऽभ्यधात् ॥
Summary
AI
In the morning, Maya spoke to King Candraprabha, who was in private, accompanied by the queen, his son, other kings, and ministers.
८.२.४८
शृणु राजन्रहस्यं ते वच्म्यद्य चिररक्षितम् ।
त्वं दानवः सुनीथाख्यो मम पुत्रो महाबलः ॥
त्वं दानवः सुनीथाख्यो मम पुत्रो महाबलः ॥
Summary
AI
"O King, listen; today I tell you a long-guarded secret. You are the mighty dānava named Sunītha, my son."
८.२.४९
सूर्यप्रभः सुमुण्डीकसंज्ञकश्च तवानुजः ।
देवाहवे हतौ जातौ पितापुत्रौ युवामिह ॥
देवाहवे हतौ जातौ पितापुत्रौ युवामिह ॥
Summary
AI
"Sūryaprabha is your younger brother named Sumuṇḍīka. Slain in the war with the gods, you two, father and son, have been reborn here."
॥ इति द्वितीयस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.