सप्तमस्तरङ्गः ।
१२.७.१
ततस्तैः सचिवैर्युक्तः क्रमाच्छ्रुतधिपञ्चमैः ।
मृगाङ्कदत्तस्तस्यां स गच्छन्विन्ध्याटवीभुवि ॥
मृगाङ्कदत्तस्तस्यां स गच्छन्विन्ध्याटवीभुवि ॥
Summary
AI
Accompanied by his five ministers led by Śrutadhi, Mṛgāṅkadatta journeyed through the regions of the Vindhya forest.
१२.७.२
संप्राप सफलस्निग्धतरुच्छायमनोरमम् ।
एकं काननमच्छाच्छस्वादुशीतजलाशयम् ॥
एकं काननमच्छाच्छस्वादुशीतजलाशयम् ॥
Summary
AI
He reached a delightful forest filled with the pleasant shade of fruit-bearing trees and a reservoir of very clear, sweet, and cool water.
१२.७.३
तत्र स्नातः ससचिवो भुक्तनानाफलश्च सः ।
एकदेशे लताच्छन्ने समालापमिवाशृणोत् ॥
एकदेशे लताच्छन्ने समालापमिवाशृणोत् ॥
Summary
AI
After bathing with his ministers and eating various fruits, he heard what sounded like a conversation coming from a vine-covered spot.
१२.७.४
गत्वा ददाति यावच्च दृष्टिं तत्र लतान्तरे ।
तावद्ददर्श तत्रान्तर्महान्तं वरवारणम् ॥
तावद्ददर्श तत्रान्तर्महान्तं वरवारणम् ॥
Summary
AI
Looking through the creepers, he saw a majestic elephant inside.
१२.७.५
आश्वासयन्तं पुरुषं पथि श्रान्तमचक्षुषम् ।
करेणोपाहृतैस्तोयैः फलैः कर्णानिलैस्तथा ॥
करेणोपाहृतैस्तोयैः फलैः कर्णानिलैस्तथा ॥
Summary
AI
The elephant was comforting a blind man exhausted from travel, providing him with water and fruits and fanning him with its ears.
१२.७.६
कच्चित्किंचित्समाश्वस्तो भवानिति च तं मुहुः ।
साधुमानुषवत्प्रीत्या वदन्तं व्यक्तया गिरा ॥
साधुमानुषवत्प्रीत्या वदन्तं व्यक्तया गिरा ॥
Summary
AI
Like a virtuous human, the elephant spoke affectionately in a clear voice, repeatedly asking the man if he felt comforted.
१२.७.७
तं दृष्ट्वा स सखीनाह राजपुत्रः सविस्मयः ।
पश्यत क्व गजो वन्यः क्वाचारो मानुषोचितः ॥
पश्यत क्व गजो वन्यः क्वाचारो मानुषोचितः ॥
Summary
AI
Astonished, the prince said to his friends, "Observe the contrast between a wild elephant and such refined human-like behavior!"
१२.७.८
अवश्यं को ऽप्ययं हेतोः कुतो ऽप्येवमिह स्थितः ।
अयं प्रचण्डशक्तेश्च सख्युः सुसदृशः पुमान् ॥
अयं प्रचण्डशक्तेश्च सख्युः सुसदृशः पुमान् ॥
Summary
AI
"Surely this being is here for a reason. This man looks exactly like our friend Pracaṇḍaśakti."
१२.७.९
किं त्वन्ध एष तत्क्षिप्रं पश्याम इति तान्सखीन् ।
उक्त्वा मृगाङ्कदत्तो ऽत्र तस्थौ शृण्वन्नलक्षितः ॥
उक्त्वा मृगाङ्कदत्तो ऽत्र तस्थौ शृण्वन्नलक्षितः ॥
Summary
AI
"But he is blind. Let us observe closely," said Mṛgāṅkadatta, remaining hidden while listening to them.
१२.७.१०
तावत्स तं समाश्वस्तमन्धं पप्रच्छ वारणः ।
कस्त्वं कथमिहायातो ऽस्यन्धः सन्कथ्यतामिति ॥
कस्त्वं कथमिहायातो ऽस्यन्धः सन्कथ्यतामिति ॥
Summary
AI
Meanwhile, the elephant asked the comforted blind man about his identity and how he came to be there in such a state.
१२.७.११
ततः सो ऽपि जगादैतं पुमानन्धो गजोत्तमम् ।
अस्तीहामरदत्ताख्यो राजायोध्यापुरीपतिः ॥
अस्तीहामरदत्ताख्यो राजायोध्यापुरीपतिः ॥
Summary
AI
The blind man replied to the noble elephant, "There is a king named Amaradatta, the lord of the city of Ayodhyā."
१२.७.१२
मृगाङ्कदत्त इत्यस्ति तस्योत्तमगुणः सुतः ।
तस्य प्रचण्डशक्त्याख्यो भृत्यो ऽहं शुभजन्मनः ॥
तस्य प्रचण्डशक्त्याख्यो भृत्यो ऽहं शुभजन्मनः ॥
Summary
AI
"He has a virtuous son named Mṛgāṅkadatta. I am the servant of that noble prince, named Pracaṇḍaśakti."
१२.७.१३
स राजपुत्रः केनापि कारणेन स्वदेशतः ।
पित्रा निर्वासितो ऽस्माभिः सहायैर्दशभिर्वृतः ॥
पित्रा निर्वासितो ऽस्माभिः सहायैर्दशभिर्वृतः ॥
Summary
AI
"That prince was exiled from his country by his father for a certain reason, accompanied by ten of us."
१२.७.१४
ते शशाङ्कवतीहेतोर्वयमुज्जयिनीं ततः ।
प्रस्थिता नागशापेन सर्वे ऽटव्यां वियोजिताः ॥
प्रस्थिता नागशापेन सर्वे ऽटव्यां वियोजिताः ॥
Summary
AI
"We set out for Ujjayinī for the sake of Śaśāṅkavatī but were all separated in the forest due to a Nāga's curse."
१२.७.१५
अहं चान्धत्वमायातस्तच्छापेन परिभ्रमन् ।
इह प्राप्तो यथालब्धफलमूलजलाशनः ॥
इह प्राप्तो यथालब्धफलमूलजलाशनः ॥
Summary
AI
"Blinded by that curse, I wandered eating whatever fruits and roots I found until I reached this place."
१२.७.१६
श्वभ्रादिपातानशनैर्मृत्युरिष्टतमो ऽपि मे ।
अनुभावयता क्लेशं न दत्तो बत वेधसा ॥
अनुभावयता क्लेशं न दत्तो बत वेधसा ॥
Summary
AI
"Alas! Fate, prolonging my misery, did not grant me even my desired death through starvation or falling into ravines."
१२.७.१७
जाने त्वद्य यथा शान्तं क्षुद्दुःखं त्वत्प्रसादतः ।
तथान्ध्यमपिमे शाम्येत्किमपित्वं हि दैवतम् ॥
तथान्ध्यमपिमे शाम्येत्किमपित्वं हि दैवतम् ॥
Summary
AI
"Since my hunger is pacified by your grace, I believe my blindness may also be cured, for you are surely a deity."
१२.७.१८
इत्युक्ते तेन संजातनिश्चयो हर्षशोकयोः ।
मृगाङ्कदत्तो मध्यस्थः सचिवांस्तानभाषत ॥
मृगाङ्कदत्तो मध्यस्थः सचिवांस्तानभाषत ॥
Summary
AI
Having confirmed the man's identity, Mṛgāṅkadatta, moved by both joy and sorrow, spoke to his ministers.
१२.७.१९
प्रचण्डशक्तिरेवायं कष्टमेतां दशां गतः ।
न चैष संभावयितुं युक्तो नस्त्वरयाधुना ॥
न चैष संभावयितुं युक्तो नस्त्वरयाधुना ॥
Summary
AI
"This is indeed Pracaṇḍaśakti in this miserable state. It is not wise for us to reveal ourselves to him hastily."
१२.७.२०
नेत्रोपकारमस्यैष द्विपः कुर्वीत जातुचित् ।
अस्मान्दृष्ट्वा त्वसौ नश्येद्द्रष्टव्यो ऽन्तस्तदत्र नः ॥
अस्मान्दृष्ट्वा त्वसौ नश्येद्द्रष्टव्यो ऽन्तस्तदत्र नः ॥
Summary
AI
"This elephant may yet restore his sight. If it sees us, it might flee, so we must watch the outcome from hiding."
१२.७.२१
इत्युक्त्वा सानुगः शृण्वंस्तस्थौ राजसुतो ऽत्र सः ।
प्रचण्डशक्तिश्च ततस्तं स पप्रच्छ वारणम्् ॥
प्रचण्डशक्तिश्च ततस्तं स पप्रच्छ वारणम्् ॥
Summary
AI
Saying this, the prince and his followers stood listening, while Pracaṇḍaśakti questioned the elephant.
१२.७.२२
इदानीं ब्रूहि वृत्तान्तं महात्मन्मम को भवान् ।
कैषा ते गजता वाक्च समदस्यापि निर्मदा ॥
कैषा ते गजता वाक्च समदस्यापि निर्मदा ॥
Summary
AI
"O noble one, tell me your story. Who are you? How do you have this elephant form and yet speak so calmly despite being in a state of must?"
१२.७.२३
तदाकर्ण्य स निःश्वस्य गजेन्द्रस्तमभाषत ।
शृण्विमं निजवृत्तान्तमामूलात्कथयामि ते ॥
शृण्विमं निजवृत्तान्तमामूलात्कथयामि ते ॥
Summary
AI
Hearing this, the elephant king sighed and replied, "Listen, I shall tell you my own story from the very beginning."
१२.७.२४
नगर्यामेकलव्यायां पुरा श्रुतधराभिधः ।
राजाभूत्तस्य चाभूतां सुतौ द्वौ भार्ययोर्द्वयोः ॥
राजाभूत्तस्य चाभूतां सुतौ द्वौ भार्ययोर्द्वयोः ॥
Summary
AI
Long ago, in the city of Ekalavyā, there lived a king named Śrutadhara who had two sons born of his two wives.
१२.७.२५
तयोः शीलधरं नाम ज्येष्ठं तस्मिन्दिवं गते ।
राज्यात्सत्यधरो नाम कनीयान्निरवासयत् ॥
राज्यात्सत्यधरो नाम कनीयान्निरवासयत् ॥
Summary
AI
After the king's death, the younger son, Satyadhara, exiled his elder brother, Śīladhara, from the kingdom.
१२.७.२६
सो ऽथ शीलधरो गत्वा तेनामर्षेण शंकरम् ।
आराध्य तपसा तुष्टात्तस्माद्वरमयाचत ॥
आराध्य तपसा तुष्टात्तस्माद्वरमयाचत ॥
Summary
AI
Filled with resentment, Śīladhara worshipped Lord Śaṅkara through penance. Pleased, the God granted him a boon of his choice.
१२.७.२७
भूयासं देव गन्धर्वो येनाम्बरचरो भवन् ।
तं सत्यधरदायादं हन्यामेवावहेलया ॥
तं सत्यधरदायादं हन्यामेवावहेलया ॥
Summary
AI
"O Lord, let me become a Gandharva so that I may fly through the air and easily slay the descendant of Satyadhara."
१२.७.२८
तच्छ्रुत्वा भगवानेवं शंभुरादिशति स्म तम् ।
एतत्ते भावि किं त्वद्य स शत्रुस्ते मृतः स्वयम् ॥
एतत्ते भावि किं त्वद्य स शत्रुस्ते मृतः स्वयम् ॥
Summary
AI
Lord Śambhu replied, "It shall be so, but your enemy has died today on his own."
१२.७.२९
जनिष्यते च राढायां पुनरुग्रभटस्य सः ।
नृपस्य पुत्रः समरभटो नाम पितृप्रियः ॥
नृपस्य पुत्रः समरभटो नाम पितृप्रियः ॥
Summary
AI
"He will be reborn in Rāḍhā as Samarabhaṭa, the beloved son of King Ugrabhaṭa."
१२.७.३०
त्वं च भीमभटो नाम तस्य द्वैमातुरो ऽग्रजः ।
भ्राता जनिष्यते तं च हत्वा राज्यं करिष्यसि ॥
भ्राता जनिष्यते तं च हत्वा राज्यं करिष्यसि ॥
Summary
AI
"You will be born as his elder step-brother Bhīmabhaṭa. You will slay him and rule the kingdom."
१२.७.३१
सामर्षेण त्वया चैतद्यतस्तप्तं तपस्ततः ।
मुनिशापात्पदभ्रष्टो वन्यो हस्ती भविष्यसि ॥
मुनिशापात्पदभ्रष्टो वन्यो हस्ती भविष्यसि ॥
Summary
AI
"However, because you performed penance with resentment, you shall fall from your state due to a sage's curse and become a wild elephant."
१२.७.३२
जातिस्मरो व्यक्तवान्क्व भवानाश्वासयिष्यति ।
यदावसन्नमतिथिं स्ववृत्तान्तं च वक्ष्यति ॥
यदावसन्नमतिथिं स्ववृत्तान्तं च वक्ष्यति ॥
Summary
AI
"Retaining the memory of your past life and the power of speech, when you comfort a distressed guest and tell him your story..."
१२.७.३३
तदा गजत्वान्निर्मुक्तो गन्धर्वस्त्वं भविष्यसि ।
उपकारश्च तस्यापि भविष्यत्यतिथेस्तदा ॥
उपकारश्च तस्यापि भविष्यत्यतिथेस्तदा ॥
Summary
AI
"...you will then be released from your elephant form, become a Gandharva, and also be of service to that guest."
१२.७.३४
इत्यादिश्य तिरोभूते भर्गे शीलधरो ऽत्र सः ।
दृष्ट्वा चिरतपःक्षीणां गङ्गायां तनुमक्षिपत् ॥
दृष्ट्वा चिरतपःक्षीणां गङ्गायां तनुमक्षिपत् ॥
Summary
AI
Having spoken thus, Bharga vanished. Śīladhara then cast his body, withered by long penance, into the Gaṅgā.
१२.७.३५
अत्रान्तरे कथासंधौ पूर्वोद्दिष्टस्य भूपतेः ।
तस्योग्रभटसंज्ञस्य राढायां पुरि तुल्यया ॥
तस्योग्रभटसंज्ञस्य राढायां पुरि तुल्यया ॥
Summary
AI
Meanwhile, in the city of Rāḍhā, King Ugrabhaṭa, who was mentioned before...
१२.७.३६
मनोरमाख्यया देव्या समं निवसतः सुखम् ।
पार्श्वं देशान्तरादागाल्लासको नाम नर्तकः ॥
पार्श्वं देशान्तरादागाल्लासको नाम नर्तकः ॥
Summary
AI
...lived happily with his queen Manoramā. One day, a dancer named Lāsaka arrived from another land.
१२.७.३७
स च नाट्यप्रयोगं तं राज्ञे तस्मायदर्शयत् ।
दैत्यानां हरिणा यत्र हृतं स्त्रीरूपिणामृतम् ॥
दैत्यानां हरिणा यत्र हृतं स्त्रीरूपिणामृतम् ॥
Summary
AI
He performed a play for the king showing how Lord Hari, disguised as a woman, stole the nectar from the Daityas.
१२.७.३८
तत्र चामृतिकाभूमौ नृत्यन्तीं नर्तकस्य सः ।
ददर्श तनयां तस्य नाम्ना लास्यवतीं नृपः ॥
ददर्श तनयां तस्य नाम्ना लास्यवतीं नृपः ॥
Summary
AI
During the dance, the King saw the dancer's daughter, Lāsyavatī, performing the role of Amṛtikā.
१२.७.३९
तस्याः स रूपं दृष्ट्वैव विश्वक्षोभितदानवम् ।
सत्यामृताया इव तद्राजा कामवशं ययौ ॥
सत्यामृताया इव तद्राजा कामवशं ययौ ॥
Summary
AI
Seeing her beauty, which once agitated the Dānavas, the King fell deeply in love, as if she were the real nectar.
१२.७.४०
नृत्तान्ते च धनं भूरि तत्पित्रे प्रवितीर्य सः ।
प्रावेशयत्तां तत्कालं कन्यामन्तःपुरं स्वकम् ॥
प्रावेशयत्तां तत्कालं कन्यामन्तःपुरं स्वकम् ॥
Summary
AI
After the dance, he gave immense wealth to her father and immediately took the girl into his own harem.
१२.७.४१
ततस्तया स नर्तक्या विहितोद्वाहया सह ।
लास्यवत्या नृपस्तस्थौ तन्मुखासक्तलोचनः ॥
लास्यवत्या नृपस्तस्थौ तन्मुखासक्तलोचनः ॥
Summary
AI
Then King Ugrabhaṭa lived with the dancer Lāsyavatī, whom he had married, his eyes constantly fixed upon her face.
१२.७.४२
एकदा स यजुःस्वामिसंज्ञं प्राह पुरोहितम् ।
पुत्रो नास्तीह मे तत्त्वं पुत्रेष्टिं मम कुर्विति ॥
पुत्रो नास्तीह मे तत्त्वं पुत्रेष्टिं मम कुर्विति ॥
Summary
AI
One day, he said to his priest named Yajuḥsvāmin, "I have no son; therefore, perform the putreṣṭi sacrifice for me."
१२.७.४३
ततस्तथेति विधिवत्तामिष्टिं तस्य भूपतेः ।
पुरोहितः स विदधे विद्वद्भिर्ब्राह्मणैः सह ॥
पुरोहितः स विदधे विद्वद्भिर्ब्राह्मणैः सह ॥
Summary
AI
Thereupon, the priest, agreeing, duly performed that sacrifice for the king along with learned Brāhmaṇas.
१२.७.४४
प्राशयन्मन्त्रपूतं च तद्देवीं तां मनोरमाम् ।
भागमग्र्यं चरोर्ज्येष्ठां स पूर्वाराधितस्तया ॥
भागमग्र्यं चरोर्ज्येष्ठां स पूर्वाराधितस्तया ॥
Summary
AI
Having been previously propitiated by her, the priest gave the first portion of the consecrated oblation to the senior queen, Manoramā.
१२.७.४५
शेषं तस्यै द्वितीयस्यै लास्यवत्यै ददौ च सः ।
ततश्च तौ तयोः शीलधरसत्यधरावुभौ ॥
ततश्च तौ तयोः शीलधरसत्यधरावुभौ ॥
Summary
AI
He gave the remaining portion of the oblation to the second queen, Lāsyavatī. Subsequently, both the souls known as Śīladhara and Satyadhara prepared to take birth.
१२.७.४६
उभयोरुदरे राज्ञ्योः पूर्वोक्तौ संबभूवतुः ।
प्राप्ते च समये चात्र देवी तस्य महीपतेः ॥
प्राप्ते च समये चात्र देवी तस्य महीपतेः ॥
Summary
AI
The two previously mentioned beings were conceived in the wombs of both queens. When the proper time arrived, the queen of the monarch...
१२.७.४७
मनोरमा प्रसूते स्म पुत्रं कल्याणलक्षणम् ।
एष भीमभटो नाम जातः ख्यातयशा नृपः ॥
एष भीमभटो नाम जातः ख्यातयशा नृपः ॥
Summary
AI
Manoramā gave birth to a son with auspicious marks. A voice announced, "This child is born as the famous king Bhīmabhaṭa."
१२.७.४८
इत्युच्चचार तत्कालं सुस्पष्टा भारती दिवः ।
ततो ऽन्येद्युः प्रसुषुवे सापि लास्यवती सुतम् ॥
ततो ऽन्येद्युः प्रसुषुवे सापि लास्यवती सुतम् ॥
Summary
AI
Thus a clear celestial voice spoke at that moment. On the following day, Lāsyavatī also gave birth to a son.
१२.७.४९
पिता चतं स समरभटं नाम्नाकरोन्नृपः ।
अथ तौ कृतसंस्काराववर्धेतां शनैः शिशू ॥
अथ तौ कृतसंस्काराववर्धेतां शनैः शिशू ॥
Summary
AI
The king named the child Samarabhaṭa. As they received their sacraments, the two children gradually grew up.
॥ इति सप्तमस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.