अष्टमस्तरङ्गः ।
१२.८.१
जितं विघ्नजिता यस्य पुष्पवृष्टिरिवाम्बरात् ।
तारावली कराघातच्युता पतति नृत्यतः ॥
तारावली कराघातच्युता पतति नृत्यतः ॥
Summary
AI
Victory to the remover of obstacles (Gaṇeśa), from whose hands, while dancing, the stars fall from the sky like a shower of flowers due to the impact of his palms.
१२.८.२
ततो ऽतिवाह्य रात्रिं तां प्रभाते काननात्ततः ।
प्रचण्डशक्तिप्रमुखैः प्रस्थितः सचिवैः सह ॥
प्रचण्डशक्तिप्रमुखैः प्रस्थितः सचिवैः सह ॥
Summary
AI
Then, after passing that night, he set out at dawn from the forest with his ministers, headed by Pracaṇḍaśakti.
१२.८.३
स शशाङ्कवतीहेतोः पुनरुज्जयिनीं प्रति ।
मृगाङ्कदत्तः प्रययौ चिन्वञ्शेषान्स्वमन्त्रिनः ॥
मृगाङ्कदत्तः प्रययौ चिन्वञ्शेषान्स्वमन्त्रिनः ॥
Summary
AI
For the sake of Śaśāṅkavatī, Mṛgāṅkadatta set out toward Ujjayinī again, searching for the rest of his ministers.
१२.८.४
गच्छता ददृशे तेन मार्गे विक्रमकेसरी ।
मन्त्री पुंसातिविकृतेनोह्यमानो नभस्तले ॥
मन्त्री पुंसातिविकृतेनोह्यमानो नभस्तले ॥
Summary
AI
While traveling, he saw his minister Vikramakesarī being carried through the sky by a highly deformed man.
१२.८.५
दर्श्यते चान्यमन्त्रिभ्यो यावत्तेन स संभ्रमात् ।
तावत्स मन्त्री गगनात्तत्समीपे ऽवतीर्णवान् ॥
तावत्स मन्त्री गगनात्तत्समीपे ऽवतीर्णवान् ॥
Summary
AI
Just as he was excitedly pointing him out to the other ministers, that minister descended from the sky near him.
१२.८.६
अवरुह्य च तस्याशु पुंसः स्कन्धादुपेत्य सः ।
मृगाङ्कदत्तं जग्राह पादयोः साश्रुलोचनः ॥
मृगाङ्कदत्तं जग्राह पादयोः साश्रुलोचनः ॥
Summary
AI
Quickly dismounting from the man's shoulders and approaching, he clasped Mṛgāṅkadatta’s feet with tearful eyes.
१२.८.७
तेनाश्लिष्टश्च हृष्टेन तथा तन्मन्त्रिभिः क्रमात् ।
विससर्ज पुमांसं तं स्मृतो ऽभ्येष्यसि मामिति ॥
विससर्ज पुमांसं तं स्मृतो ऽभ्येष्यसि मामिति ॥
Summary
AI
Embraced joyfully by him and then by the other ministers in turn, he dismissed that man, saying, "You shall come to me when remembered."
१२.८.८
ततो मृगाङ्कदत्तेन कौतुकादुपविश्य सः ।
पृष्टः स्वोदन्तमाचख्यौ वने विक्रमकेसरी ॥
पृष्टः स्वोदन्तमाचख्यौ वने विक्रमकेसरी ॥
Summary
AI
Then, sitting down in the forest, Vikramakesarī related his own adventures when questioned out of curiosity by Mṛgāṅkadatta.
१२.८.९
तदा भवद्भ्यो विभ्रष्टो नागशापात्परिभ्रमन् ।
बहून्यहानि चिन्वानो युष्मानहमचिन्तयम् ॥
बहून्यहानि चिन्वानो युष्मानहमचिन्तयम् ॥
Summary
AI
"At that time, separated from you all due to the Nāga's curse and wandering for many days while searching for you, I thought:"
१२.८.१०
गच्छाम्युज्जयिनीं तत्र गन्तव्यं तैर्ध्रुवं यतः ।
एवं निश्चित्य च प्रायामहं तां नगरीं प्रति ॥
एवं निश्चित्य च प्रायामहं तां नगरीं प्रति ॥
Summary
AI
"'I shall go to Ujjayinī, for they must surely go there.' Having decided thus, I set out toward that city."
१२.८.११
क्रमात्तन्निकटं प्राप्य ग्रामं ब्रह्मस्थलाभिधम् ।
वापीतटे ऽहमेकस्मिन्वृक्षमूल उपाविशम् ॥
वापीतटे ऽहमेकस्मिन्वृक्षमूल उपाविशम् ॥
Summary
AI
"In due course, reaching a village named Brahmasthala near there, I sat down at the foot of a tree on the bank of a stepped well."
१२.८.१२
तत्रैत्य सर्पदंशार्तो वृद्धो मां ब्राह्मणो ऽब्रवीत् ।
इत उत्तिष्ठ मा पुत्र मदीयां गतिमाप्स्यसि ॥
इत उत्तिष्ठ मा पुत्र मदीयां गतिमाप्स्यसि ॥
Summary
AI
"An old Brāhmaṇa afflicted by a snakebite approached and said, 'Son, rise from here; do not meet the same fate as I.'"
१२.८.१३
इहास्ति हि महासर्पो येन दष्टो रुजार्दितः ।
उद्यतो ऽस्यां महावाप्यामेषो ऽहं देहमुज्झितम् ॥
उद्यतो ऽस्यां महावाप्यामेषो ऽहं देहमुज्झितम् ॥
Summary
AI
"'For here is a great serpent; bitten by it and tormented by pain, I am now prepared to cast off my body in this great well.'"
१२.८.१४
इत्युक्तवन्तं कृपया देहत्यागान्निवार्य तम् ।
तत्राकार्षमहं विप्रं निर्विषं विषविद्यया ॥
तत्राकार्षमहं विप्रं निर्विषं विषविद्यया ॥
Summary
AI
"Preventing him from abandoning his body out of compassion, I cured that Brāhmaṇa of the poison there using the science of toxicology."
१२.८.१५
ततः स विप्रः साकूतमुदन्तं कृत्स्नमादरात् ।
पृष्ट्वा मां प्रीतिमानेवं विदितार्थो ऽभ्यभाषत ॥
पृष्ट्वा मां प्रीतिमानेवं विदितार्थो ऽभ्यभाषत ॥
Summary
AI
"Then that Brāhmaṇa, having respectfully asked for my entire story with interest and having understood the facts, spoke to me affectionately:"
१२.८.१६
प्राणास्त्वया मम प्रत्ता तत्प्रवीर गृहाण मे ।
वेतालसाधनं मन्त्रमिमं प्राप्तं मया पितुः ॥
वेतालसाधनं मन्त्रमिमं प्राप्तं मया पितुः ॥
Summary
AI
"'O hero, my life has been restored by you; therefore, accept from me this Vetāla-mastering mantra obtained from my father.'"
१२.८.१७
त्वादृशामुपयुक्तो ऽयं सिद्धिकृत्सत्त्वशालिनाम् ।
मादृशाः पुनरेते न क्लीबाः किं नाम कुर्वते ॥
मादृशाः पुनरेते न क्लीबाः किं नाम कुर्वते ॥
Summary
AI
"'This is suitable and brings success for courageous ones like you; but what can weaklings like me do with it?'"
१२.८.१८
इत्युक्तस्तेन तमहं प्रत्यवोचं द्विजोत्तमम् ।
मृगाङ्कदत्तवियुतो वेतालैः किं करोम्यहम् ॥
मृगाङ्कदत्तवियुतो वेतालैः किं करोम्यहम् ॥
Summary
AI
"Spoken to thus by him, I replied to that best of Brāhmaṇas, 'Separated from Mṛgāṅkadatta, what shall I do with Vetālas?'"
१२.८.१९
तच्छ्रुत्वा स विहस्यैवं विप्रो मां पुनरब्रवीत् ।
किं न जानास्यभीष्टं यद्वेतालात्सर्वमाप्यते ॥
किं न जानास्यभीष्टं यद्वेतालात्सर्वमाप्यते ॥
Summary
AI
"Hearing that, the Brāhmaṇa laughed and said to me again, 'Do you not know that whatever is desired, all that is obtained from a Vetāla?'"
१२.८.२०
अपि विद्याधरैश्वर्यं वेतालस्य प्रसादतः ।
किं त्रिविक्रमसेनेन न प्राप्तं भूभुजा पुरा ॥
किं त्रिविक्रमसेनेन न प्राप्तं भूभुजा पुरा ॥
Summary
AI
"'In ancient times, was the sovereignty of the Vidyādharas not obtained by King Trivikramasena through the grace of a Vetāla?'"
१२.८.२१
तथा च कथयाम्येतां तदीयां ते कथां शृणु ।
प्रतिष्ठानाभिधानो ऽस्ति देशो गोदावरीतटे ॥
प्रतिष्ठानाभिधानो ऽस्ति देशो गोदावरीतटे ॥
Summary
AI
Thus, I shall tell you that story of his; listen. On the banks of the Godāvarī river, there is a region named Pratiṣṭhāna.
१२.८.२२
तत्र विक्रमसेनस्य पुत्रः शक्रपराक्रमः ।
प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरभून्नृपः ॥
प्राक्त्रिविक्रमसेनाख्यः ख्यातकीर्तिरभून्नृपः ॥
Summary
AI
There, formerly, lived a king named Trivikramasena, the son of Vikramasena, who possessed the prowess of Śakra and was of renowned fame.
१२.८.२३
तस्य प्रत्यहमास्थानगतस्योपेत्य भूपतेः ।
सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ॥
सेवार्थं क्षान्तिशीलाख्यो भिक्षुः फलमुपानयत् ॥
Summary
AI
A mendicant named Kṣāntiśīla would approach that king every day while he sat in court and present him with a fruit as an act of service.
१२.८.२४
सो ऽपि राजा तदादाय फलमासन्नवर्तिनः ।
हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥
हस्ते ददौ प्रतिदिनं कोषागाराधिकारिणः ॥
Summary
AI
The king, after receiving the fruit daily, would hand it over to the treasury officer who stood nearby.
१२.८.२५
इत्थं गतेषु वर्षेषु दशस्वत्र किलैकदा ।
दत्त्वा राज्ञे फलं तस्मै भिक्षावास्थानतो गते ॥
दत्त्वा राज्ञे फलं तस्मै भिक्षावास्थानतो गते ॥
Summary
AI
Ten years passed in this manner. One day, after the mendicant had given the fruit to the king and departed from the court...
१२.८.२६
स राजा तत्फलं प्रादात्प्रविष्टायात्र दैवतः ।
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥
क्रीडामर्कटपोताय हस्तभ्रष्टाय रक्षिणाम् ॥
Summary
AI
The king gave that fruit to a pet baby monkey that had escaped from its keepers and happened to enter the court by chance.
१२.८.२७
स मर्कटस्तदश्नाति यावत्तावत्फलात्ततः ।
विभिन्नमध्यान्निरगादनर्घं रत्नमुत्तमम् ॥
विभिन्नमध्यान्निरगादनर्घं रत्नमुत्तमम् ॥
Summary
AI
As the monkey ate the fruit, a priceless and magnificent jewel emerged from its broken core.
१२.८.२८
तद्दृष्ट्वादाय पप्रच्छ तं भाण्डागारिकं नृपः ।
भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥
भिक्षूपनीतानि मया यानि नित्यं फलानि ते ॥
Summary
AI
Seeing this, the king took the jewel and asked the treasurer regarding the fruits daily brought by the mendicant and placed by him in the officer's hand.
१२.८.२९
हस्ते दत्तानि तानि क्व स्थापितानि सदा त्वया ।
तच्छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥
तच्छ्रुत्वा तं स सभयः कोषाध्यक्षो व्यजिज्ञपत् ॥
Summary
AI
"Where have you always kept them?" Hearing this, the treasurer, filled with fear, made a submission to the king.
१२.८.३०
क्षिप्तानि तान्यनुद्घाट्य मया गञ्जे गवाक्षतः ।
यद्यादिशसि तद्देव तमुद्घाट्य गवेषये ॥
यद्यादिशसि तद्देव तमुद्घाट्य गवेषये ॥
Summary
AI
"I threw them unopened into the treasury through the window. O Lord! If you command, I shall open it and search."
१२.८.३१
इत्यूचिवाननुमतो राज्ञा गत्वा क्षणेन सः ।
कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत्पुनः ॥
कोषाध्यक्षः समागत्य प्रभुं व्यज्ञापयत्पुनः ॥
Summary
AI
Having spoken thus and being permitted by the king, the treasurer went and returned in a moment, informing the lord again.
१२.८.३२
शीर्णानि नात्र पश्यामि कोषे तानि फलान्यहम् ।
रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥
रत्नराशिं तु पश्यामि रश्मिज्वालाकुलं विभो ॥
Summary
AI
"O Lord! I do not see those fruits decayed in the treasury; instead, I see a heap of jewels blazing with rays of light."
१२.८.३३
तच्छ्रुत्वा तान्मनीन्दत्त्वा तुष्टो ऽस्मै कोषरक्षिणे ।
राजान्येद्युरपृच्छत्स भिक्षुं तं प्राग्वदागतम् ॥
राजान्येद्युरपृच्छत्स भिक्षुं तं प्राग्वदागतम् ॥
Summary
AI
Hearing this, the pleased king gave those jewels to the treasurer. The next day, he questioned the mendicant who arrived as usual.
१२.८.३४
भिक्षो धनव्ययेनैवं सेवसे मां किमन्वहम् ।
नेदानीं ते ग्रहीष्यामि फलं यावन्न वक्ष्यसि ॥
नेदानीं ते ग्रहीष्यामि फलं यावन्न वक्ष्यसि ॥
Summary
AI
"O mendicant! Why do you serve me daily with such great expense? Until you explain this, I will no longer accept your fruit."
१२.८.३५
इत्युक्तवन्तं राजानं भिक्षुस्तं विजने ऽब्रवीत् ।
वीरसाचिव्यसापेक्षं मन्त्रसाधनमस्ति मे ॥
वीरसाचिव्यसापेक्षं मन्त्रसाधनमस्ति मे ॥
Summary
AI
To the king who spoke thus, the mendicant said in private, "I am performing a ritual that requires the assistance of a hero."
१२.८.३६
तत्र वीरेन्द्र साहाय्यं क्रियमानं त्वयार्थये ।
तच्छ्रुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ॥
तच्छ्रुत्वा प्रतिपेदे तत्तथेत्यस्य स भूपतिः ॥
Summary
AI
"O Indra among heroes! I request your assistance in that matter." Hearing this, the king agreed to his request, saying, "So be it."
१२.८.३७
ततः स श्रमणस्तुष्टो नृपं पुन उवाच तम् ।
तर्हि कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥
तर्हि कृष्णचतुर्दश्यामागामिन्यां निशागमे ॥
Summary
AI
Then, the satisfied ascetic spoke to the king again: "Therefore, on the coming fourteenth day of the dark fortnight, at nightfall..."
१२.८.३८
इतो महाश्मशानान्तर्वटस्याधः स्थितस्य मे ।
आगन्तव्यं त्वया देव प्रतिपालयतो ऽन्तिकम् ॥
आगन्तव्यं त्वया देव प्रतिपालयतो ऽन्तिकम् ॥
Summary
AI
"O Lord! You should come to me as I wait beneath a banyan tree within the great cremation ground nearby."
१२.८.३९
बाढमेवं करिष्यामीत्युक्ते तेन महीभुजा ।
स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥
स क्षान्तिशीलः श्रमणो हृष्टः स्वनिलयं ययौ ॥
Summary
AI
When the king replied, "Certainly, I will do so," the ascetic Kṣāntiśīla joyfully departed for his own abode.
१२.८.४०
अथ तां स महासत्त्वः प्राप्य कृष्णचतुर्दशीम् ।
प्रार्थनां प्रतिपन्नां तां भिक्षोस्तस्य नृपः स्मरन् ॥
प्रार्थनां प्रतिपन्नां तां भिक्षोस्तस्य नृपः स्मरन् ॥
Summary
AI
Then, when that dark fourteenth day arrived, the high-souled king, remembering the promise he had made to the mendicant...
१२.८.४१
प्रदोषे नीलवसनस्तमालकृतशेखरः ।
निर्ययौ राजधानीतः खड्गपाणिरलक्षितः ॥
निर्ययौ राजधानीतः खड्गपाणिरलक्षितः ॥
Summary
AI
At twilight, dressed in blue with a garland of tamāla leaves and sword in hand, King Trivikramasena departed from the capital unnoticed.
१२.८.४२
ययौ च घोरनिबिडध्वान्तव्रातमलीमसम् ।
चितानलोग्रनयनज्वालादारुणदर्शनम् ॥
चितानलोग्रनयनज्वालादारुणदर्शनम् ॥
Summary
AI
He proceeded toward the cemetery, which was blackened by a dense mass of terrifying darkness and appeared fearsome with the fierce, eye-like flames of funeral pyres.
१२.८.४३
असंख्यनरकङ्कालकपालास्थिविशङ्कटम् ।
हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥
हृष्यत्संनिहितोत्तालभूतवेतालवेष्टितम् ॥
Summary
AI
The burial ground was cluttered with countless human skeletons, skulls, and bones, and was surrounded by exuberant, looming bhūtas and vetālas.
१२.८.४४
भैरवस्यापरं रूपमिव गम्भीरभीषणम् ।
स्फूर्जन्महाशिवारावं श्मशानं तदविह्वलः ॥
स्फूर्जन्महाशिवारावं श्मशानं तदविह्वलः ॥
Summary
AI
Unflinching, he entered that cemetery which resounded with the loud howls of jackals and appeared like another profound and terrifying form of Lord Bhairava.
१२.८.४५
विचित्य चात्र तं प्राप्य भिक्षुं वटतरोरधः ।
कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ॥
कुर्वाणं मण्डलन्यासमुपसृत्य जगाद सः ॥
Summary
AI
Searching there, he found the mendicant under a banyan tree performing a ritual with a maṇḍala; approaching him, the King spoke.
१२.८.४६
एषो ऽहमागतो भिक्षो ब्रूहि किं करवाणि ते ।
तच्छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम् ॥
तच्छ्रुत्वा स नृपं दृष्ट्वा हृष्टो भिक्षुरुवाच तम् ॥
Summary
AI
"O monk, I have come; tell me what I should do for you." Hearing this and seeing the King, the delighted mendicant replied.
१२.८.४७
राजन्कृतः प्रसादश्चेत्तदितो दक्षिणामुखम् ।
गत्वा विदूरमेकाकी विद्यते शिंशपातरुः ॥
गत्वा विदूरमेकाकी विद्यते शिंशपातरुः ॥
Summary
AI
"O King, if you wish to favor me, then go alone from here toward the south for some distance, where a śiṃśapā tree stands."
१२.८.४८
तस्मिन्नुल्लम्बितमृतः को ऽप्येकः पुरुषः स्थितः ।
तमिहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥
तमिहानय गत्वा त्वं सानाथ्यं कुरु वीर मे ॥
Summary
AI
"On that tree hangs a certain dead man. Go and bring him here, O hero, and assist me in my task."
१२.८.४९
तच्छ्रुत्वैव तथेत्युक्त्वा स राजा सत्यसंगरः ।
दक्षिणां दिशमालम्ब्य प्रवीरः प्रययौ ततः ॥
दक्षिणां दिशमालम्ब्य प्रवीरः प्रययौ ततः ॥
Summary
AI
Hearing that, the heroic and truthful King said "so be it" and set out toward the southern direction.
॥ इति अष्टमस्तरङ्गः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.