॥ अथ महाश्वेताचन्द्रपीडयोः निर्गमनम् ॥
परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद — “ धूर्त राजपुत्र, निपुणेयम् । न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः ” इति ॥
अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् — ' आयुष्मति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयतः ' इत्येवमभिहिता च, गन्तुकामा ' सखि, चन्द्रापीडः क्वास्ताम् ' इति कादम्बरीमपृच्छत् । असौ तु ' ननु पर्याप्तमेव अनेकस्त्रीहृदयसहस्रावस्थानमनेन ' इति मनसा विहस्य प्रकाशमवदत् — ' सखि महाश्वेते, किं त्वमेवमभिदधासि । दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य, विभवस्य, परिजनस्य वा । यत्रास्मै रोचते, प्रियसखीहृदयाय वा, तत्रायमास्ताम् ' इति । तच्छ्रुत्वा महाश्वेता ' तदत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम् ' इत्यभिधाय, गन्धर्वराजं द्रष्टुं ययौ ।
चन्द्रापीडोऽपि तयैव सह निर्गत्य, विनोदार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः, पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः, क्रीडापर्वतमणिमन्दिरमगात् । गते च तस्मिन् गन्धर्वराजपुत्री विसर्ज्य सकलं सखीजनं परिजनं च, परिमितपरिचारिकाभिरनुगम्यमाना, प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः परिचारिकाभिः विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले ' चपले, किमिदमारब्धम् ' इति निगृहीतेव लज्जया, ' गन्धर्वराजपुत्रि, कथमेतद्युक्तम् ' इत्युपालब्धेव विनयेन, ' भीरु, नायं कुलकन्यकानां क्रमः ' इति गर्हितेव महत्त्वेन, ' दुर्विनीते, रक्षाविनयम् ' इति तर्जितेवाचारेण, ' मूढे मदनेन लघुतां नीतासि ' इत्यनुशासितेवाभिजात्येन, ' कुतस्तवेयं तरलहृदयता ' इति धिक्कृतेव धैर्येण, ' स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया ' इति निन्दितेव कुलस्थित्या, अतिगुर्वी लज्जामुवाह ॥
समचिन्तयच्चैवम् — ' अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहान्धया हताशया । तथा हि — ' अदृष्टपूर्वोऽयम् ' इति साहसिकया मया न शङ्कितम् । 'लघुहृदयां मां लोकः कलयिष्यति ' इति निर्ह्रीकया नाकलितम् । ' कास्य चित्तवृत्तिः ' इति मूढया न परीक्षितम् । ' दर्शनानुकूलाहमस्य न वा ' इति तरलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च 'महाश्वेता दुःखिता ' इति निर्दाक्षिण्यया नापेक्षितम् । ' आसन्नवर्ती सखीजनोऽप्युपलक्षयति' इति मन्दया न लक्षितम् । ' पार्श्वस्थितः परिजनः पश्यति ' इति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशी विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता, सकलकलाकुशलाः सख्यो वा, राजकुलसञ्चारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेषु अतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः ।
॥ इति महाश्वेताचन्द्रपीडयोः निर्गमनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.