अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता मन्थरगतेन शुकेनानुबध्यमाना, शारिका सकोधमवादीत् — ' भर्तृदारिके कादम्बरि, कस्मान्न निवारयस्येनम् अलीकसुभगाभिमानिनम् अतिदुर्विनीतं मामनुबध्नन्तं विहङ्गापशदम् । यदिमामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतमात्मानमत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन ' इत्येवमभिहिता तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता ' किमियं वदति ' इति मदलेखां पप्रच्छ । सा चाकथयन् — ' एषा भर्तृदुहितुः सखी कादम्बर्याः कालिन्दीति नाम्ना शारिका । इयमस्य च परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्युषसि कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमिमां तमालिकामेकाकिनीं किमपि पाठयन्दृष्टो यतः, ततः प्रभृति संजातेर्ष्या कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति । सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति ' इति । एतदाकर्ण्य, स्फुटस्फुरितकपोलोदरः चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् — ' अस्त्येषा कथा, श्रूयत एवैतद्राजकुले कर्णपरंपरया, परिजनोऽप्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दिगन्तरेष्वप्ययमालापो वर्तत एव, अस्माभिरप्येतदाकर्णितमेव; यथा किल — देव्याः कादम्बर्यास्ताम्बूलवाहिनीं तमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निस्त्रपोऽनया सह । देव्यास्तु कादम्बर्याः कथमेतद्युक्तम् — यन्न निवारयतीमां चपलां दुष्टदासीम् । अथवा देव्यापि कथितैव निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहङ्गाय प्रयच्छन्त्या । किमिदानीमियं करोतु ? यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । न ह्येवंविधमपरमस्ति योषितां लघिम्नः कारणम् । यदि चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम् । अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या । क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति ' इत्येवमभिहितवति तस्मिन्, सर्वास्ताः सह कादम्बर्या क्रीडालापभाविता जहसुरङ्गनाः ॥
॥ इति शुकसारिकाकुतूहलम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.