॥ अथ कादम्बर्याः चिन्ता ॥
समचिन्तयच्चैवम् — ' अगणितसर्वशङ्कया … … स्थूलबुद्धयोऽपि तादृशी विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता, सकलकलाकुशलाः सख्यो वा, राजकुलसञ्चारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेषु अतिनिपुणतरदृष्टयः अन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयः, न लज्जाकरं जीवितम् । श्रुत्वैतं वृत्तान्तं किं वक्ष्यत्यम्बा तातो वा गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि । क्व वानेन दग्धहृदयेन गृहीता गच्छामि । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता । तथा प्रियसखीनां पुरो मन्त्रितम् । तथा च केयूरकस्य हस्ते सन्दिष्टम् । न खलु जानामि मन्दभागिनी शठविधिना वा पूर्वकृतापुण्यसञ्चयेन वा मृत्युहतकेन वान्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः । कोऽपि वा, न कदाचिद्दृष्टो नानुभूतो न च श्रुतो न चिन्तितो नोत्प्रक्षितो मां विडम्बयितुमुपागतः ; यस्य दर्शनमात्रेणैव संयम्य दत्तेवेन्द्रियैः, गृहीतगुणपणेन विक्रीतेव हृदयेनोपकरणीभूतास्मि । न मे कार्यं तेन चपलेन ' इति क्षणमिव सङ्कल्पमकरोत् । कृतसङ्कल्पा तत्परित्यागसङ्कल्पसमकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन, ' अविशेषज्ञे, पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वा ' इति तत्कालागतेनाभिहितेव बाष्पेण, पुनरपि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेवमस्तमितप्रतिसमाधानबला जालवातायनेन तमेव क्रीडापर्वतमवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । तत्संगमकालातिपातासहेव मनो गमनाय नियुक्तवती, न परिजनम् ॥
॥ इति कादम्बर्याः चिन्ता ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.