॥ अथ कादम्बर्याः भावावेशः ॥
कादम्बरी तु सविभ्रमकृतप्रणामा महाश्वेतया सह पर्यङ्के निषसाद । ससंभ्रमं परिजनोपनीतायां च हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृतमुखन्यस्तहस्तदत्तशब्दनिवारणसंज्ञाः प्रतिहार्यो वेणुरवान् वीणाघोषान् गीतध्वनीन् मागधीजयशब्दांश्च सर्वतो निवारयाञ्चक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्य, उत्तरीयांशुकेनापमृज्य, पुनः पर्यङ्कमारुरोह । चन्द्रापीडस्यापि कादम्बर्याः सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविस्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतोऽपि प्रक्षालितवती चरणौ । महाश्वेता तु कर्णाभरणप्रभावर्षिण्यंसदेशे सप्रेम पाणिना स्पृशन्ती, चामरपवनविधुतिपर्यस्तां चालकवल्लरीमनुष्वजमाना कदम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । मुहूर्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत — ' सखि कादम्बरि, संप्रतिपन्नमेव सर्वाभिरस्माभिः अयमभिनवागतः चन्द्रापीड आराधनीयः । तदस्मै तावद्दीयताम् ' इत्युक्ता च किञ्चिद्विवर्तितावनमितमुखी शनैरव्यक्तमिव ' प्रियसखि, लज्जेऽहमनुपजातपरिचया प्रागल्भ्येनानेन । गृहाण, त्वमेवास्मै प्रयच्छ ' इत्युवाच सा ताम् । पुनः पुनरभिधीयमाना च तया कथमपि ग्राम्येव चिराद्दानाभिमुखं मनश्चक्रे । महाश्वेतामुखादनाकृष्टदृष्टिरेव साध्वसपरवशा पतामीति लगितुमिव कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भं हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालनसंक्रान्तसिन्दूरमिव स्वभावपाटलं प्रसारितवान् पाणिम् । तत्र च सा तेनानिबद्धलक्षशून्यप्रसारितेन हस्तेन स्वेदसलिलपातपूर्वकम् ' गृह्यतामयं मन्मथेन दत्तो दासजनः ' इत्यात्मानमिव प्रतिग्राहयन्ती ताम्बूलमदात् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ॥
॥ इति कादम्बर्याः भावावेशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.