तस्य तु दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीञ्चास्य मनसि — “ शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृतमवदातं कर्म चक्षुषा, यदनिवारितमेनां पश्यति । अहो चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत पते रूपातिशयपरमाणवः समासादिताः । तन्नूनमेनामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुबिन्दवः, तेभ्य एतानि जगति कुमुदकमलकुवलयसौगन्धिकवनान्युत्पन्नानि ” इत्येवं चिन्तयत एवास्य तस्या नयनयुगले निपपात चक्षुः । तदा तस्या अपि ' नूनमयं स केयूरकेणावेदितः ' इति चिन्तयन्त्या रूपातिशयविलोकनविस्मयस्मेरं निश्चलनिवद्धलक्षं चक्षुस्तस्मिन्सुचिरं पपात | दृष्ट्वा च प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ । अथ तस्याः कुसुमायुध एव स्वेदमजनयत् ; ससंभ्रमोत्थानश्रमो व्यपदेशोऽभवत् । ऊरुकम्प एव गतिं रुरोध ; नूपुररवाकृष्टहंसमण्डलमपयशो लेभे । निश्वासप्रवृत्तिरेवांशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । आनन्द एवाश्रुजलमपातयत् ; चलितकर्णावतंसकुसुमरजो व्याज आसीत् । लज्जैव वक्तुं न ददौ ; मुखकमलपरिमलागतालिबृन्दं द्वारतामगात् ॥
कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठां सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत् — ' सखि कादम्बरि, भारते वर्षे राजा रक्षितप्रजापीडस्तारापीडो नाम । तस्यायं निजभुजशिलास्तम्भविश्रान्तविश्वविश्वंभरापीडः चन्द्रापीडो नाम सूनुर्दिग्विजयप्रसङ्गेनानुगतो भूमिमिमाम् । एष च दर्शनात्प्रभृति प्रकृत्या मे निष्कारणबन्धुतां गतः । परित्यक्तसकलसङ्गनिष्ठुरामपि मे सविशेषैः स्वभावसरलैर्गुणैराकृष्य चित्तवृत्तिं वर्तते । दुर्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः । यतो दृष्ट्वेममहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नतां च रूपस्य, स्थानाभिनिवेशित्वं च लक्ष्म्याः, सद्भर्तृतासुखं च पृथिव्याः, सुरलोकातिरिक्ततां च मर्त्यलोकस्य, सफलतां च मानुषीलोचनानाम्, एकस्थानसमागमं च सर्वकलानां ज्ञास्यसीति बलादानीतोऽयम् । कथिता चास्य मया बहुप्रकारं प्रियसखी । तदपूर्वदर्शनोऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्याविस्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्काम्, यथा मयि, तथात्रापि वर्तितव्यम् । एष ते मित्रं च, बान्धवश्च, परिजनश्च ” इत्यावेदिते तया, चन्द्रापीडः प्रणाममकरोत् ॥
॥ इति कादम्बरीचन्द्रापीडयोः भावावेशः, चन्द्रपीडस्य मैत्री ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.