तत्र च मध्यभागे, पर्यन्तरचितमण्डलोपविष्टेन चानेकसहस्रसंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः पर्यङ्कस्योपाश्रये धवलोपधानन्यस्तद्विगुणभुजलतावष्टम्भेन अवस्थिताम्, निपतितप्रतिबिम्बतया अधस्तान्मणिकुट्टिमेषु नागैरिवापह्रियमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव नीयमानाम्, उपरि मणिमण्डपेष्वमरैः इवोत्क्षिप्यमाणाम्, अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, पादाभरणरत्नांशुलेखासंदेहदायिनीभिः अतिकोमलतया नखविवरेण वमन्तीभिरिव रुधिरधारावर्षम् अङ्गुलिभिरुपेताभ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्तयन्तीम्, प्रजापतिकरदृढनिष्पीडितमध्यभागगलितं जघनशिलातलप्रतिघाताल्लावण्यजलस्रोत इव द्विधागतमूरुद्वयं दधानाम्, सर्वतः प्रसारितदीर्घमयूखमण्डलेनेर्ष्यया परपुरुषदर्शनमिव निरुन्धता काञ्चीदाम्ना नितम्बबिम्बस्य विरचितपरिवेषाम्, प्रजापतेः स्पृशतः सौकुमार्यादङ्गुलिमुद्रामिव निमग्नां नाभिमण्डलीमावर्तिनीमुद्वहन्तीम्, नखकिरणविसरवर्षिणा च माणिक्यवलयगौरवश्रमवशात् स्वेदजलधाराजालकम् इव मुञ्चता करयुगलेन समुद्भासिताम्, अभिनवयौवनपवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रमलतालोहिताभ्याम् अधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसंपुटच्छविना कपोलयुगलेन रतिपरिवादिनीरत्नकोणचारुणा च नासावंशेन गतिप्रसरनिरोधिश्रवणकोपादिव किंचिदारक्तापाङ्गेन लोचनयुगलेन च विराजमानाम्, उन्मदयौवनकुञ्जरमदराजिभ्यां भ्रूलताभ्यां मनःशिलापङ्कलिखितेन च वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमयं कर्णपाशं दोलायमानमरकतमाणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनश्चूडामणेः क्षरतांशुजालेन प्रक्षाल्यमानदीर्घकेशकलापाम्, रजनिजागरखिन्नस्य परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिवालुकाभिः बालपुलिनानि कारयन्तीम्, आत्मसंवर्धितलताप्रथमकुसुमनिर्गमनिवेदनागताम् उद्यानपालीम् अशेषाभरणदानेन संमानयन्तीम्, उपनीतविविधवनकुसुमफलपूर्णपत्रपुटाम् अविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रोडापर्वतपत्रशबरीम् आलापयन्तीम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम्, दिनमुखलक्ष्मीम् इव भास्वन्मुक्तांशुभिन्नपद्मरागप्रसाधनाम्, कल्पतरुलतामिव कामफलप्रदाम्, पुरः समीपे संमुखोपविष्टम् — ' कोऽसौ ? कस्य वापत्यम् ? किमभिधानो वा ? कीदृशमस्य रूपम् ? कियद्वा वयः ? किमभिधत्ते ? भवता किमभिहितः ? कियच्चिरं दृष्टस्त्वया ? कथं चास्य महाश्वेतया सह परिचय उपजातः ? किमयमत्रागमिष्यति ? ' इति मुहुर्मुहुश्चन्द्रापीडसंबद्धालापं तद्रूपवर्णनामुखरं केयूरकं पृच्छन्ती कादम्बरीं ददर्श ॥
॥ इति कादम्बरीवर्णना ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.