Loading data... On slow networks this could take a few minutes.
100%
॥ अथ कादम्बरीभवनवर्णना ॥
यत्र च कन्यकाजनस्य लोचनान्येव कर्णोत्पलानि, निःश्वासा एवाधिवासगन्धयुक्तयः, आलापा एव तन्त्रीनिनादाः, करतलान्येव लीलाकमलानि, निजदेहप्रभैवांशुकावगुण्ठनम्, कोमलाङ्गुलिराग एव चरणालक्तकरसः । यत्र चालक्तकरसोऽपि चरणातिभारः, अवतंसकुसुमधारणमपि श्रमः, सखीदर्शनेषु अकृतहस्तावलम्बनमुत्थानम् अतिसाहसम्, कुसुमावचयेषु द्वितीयकुसुमग्रहणमपि अयुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् असुकुमारजनव्यापारः ॥
तस्य चैवंविधस्य किंचिदभ्यन्तरमतिक्रम्य, इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्नस्य परिजनस्य तांस्तानतिमनोहरानालापान् शृण्वन्नेव, कादम्बरीभवनसमीपमुपययौ ॥
पुलिनायमानम् उपवनलतागलितकुसुमरेणुपटलैः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः, सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् । तेन चान्तर्निपतितमाभरणकिरणालोकं संपिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतिहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ॥
॥ इति कादम्बरीभवनवर्णना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.