महाश्वेता तु तच्छ्रुत्वा, सुचिरं विचार्य, — ' गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामि ' इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके, चन्द्रापीडमुवाच — “ राजपुत्र, रमणीयो हेमकूटः। चित्रा च चित्ररथराजधानी । बहुकुतूहल: किंपुरुषविषयः । पेशलो गन्धर्वलोकः । सरलहृदया महानुभावा च कादम्बरी । यदि नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरु प्रयोजनम्, अदृष्टचरविषयकुतूहलि वा चेतः, मद्वचनमनुरुध्यते वा भवान्, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनामिमाम् । इतो मयैव सहं गत्वा हेमकूटम् अतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्, अपनीय तस्याः कुमतिमनोमोहविलसितम्, एकमहो विश्रम्य, श्वोभूते प्रत्यागमिष्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दु:खान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा । श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जन रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयः ” इत्युक्तवती च चन्द्रापीडः — ' भगवति, दर्शनात्प्रभृति परवानयं जनः । कर्तव्येषु यथेष्टमशङ्किततया नियुज्यताम् ' इत्यभिधाय तया सहैवोदचलत् ॥
क्रमेण च गत्वा हेमकूटम्, आसाद्य गन्धर्वराजकुलम्, समतीत्य काञ्चनतोरणानि सप्त कक्षान्तरणि, कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन प्रतीहारजनेन उपदिश्यमानमार्गः प्रविश्य, असंख्येयनारीशतसहस्रसंबाधम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव संहतम्, अपुरुषमिव सर्गान्तरम्, अनेककल्पकल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोशम्, शृङ्गारमयमिव सौन्दर्यमयमिव कुतूहलमयमिव कुमारः कुमारीपुराभ्यन्तरं ददर्श ॥
॥ इति कादम्बरीदर्शनाय महाश्वेतानिश्चयः, कन्यकान्तःपुरम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.