॥ अथ कादम्बरीवार्ताश्रवणम् (भागः 2) ॥
अहं तु यत्सत्यमनिदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती — ' देवि, श्रोतुमिच्छामि । आज्ञापय — किं कृतं देवेन चन्द्रापीडेन । को वापराधः समजनि । केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि, पश्चात्समुत्स्रक्ष्यसि जीवितम् ' इत्येवमभिहिता च पुनरवदत् — ' आवेदयामि ते । अवहिता शृणु । स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसंदेशेषु निपुणधूर्तः पञ्जरशुकशारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः सङ्केतस्थानानि लिखति । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुकदशाप्रतिहतगमनाया मिथ्याप्रगल्भः पराङ्मुख्याः परिष्वङ्गमाचरति । शीतलैर्मुखमरुद्भिः श्रमजलशीकरतारकितावलीकचाटुकारः कपोलौ वीजयति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च कथय, हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते। प्रत्याख्यानमपीर्ष्यां संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणप्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति ' इति ॥
तामेवंवादिनीमाकर्ण्य, प्रहर्षरसनिर्भरा विहस्याब्रवम् — ' देवि, यद्येवम्, उत्सृज कोपम् । प्रसीद । नार्हसि कामापराधैर्देवं दूषयितुम् । एतानि खलु कुसुमचापस्य चापलानि शठस्य न देवस्य ' इत्येवमुक्तवती मां पुनः सकुतूहला सा प्रत्यभाषत — ' योऽयं काम:, कोऽपि वा, कथय, कानि कान्यस्य रूपाणि ' इति । तामहं व्यजिज्ञपम् — ' देवि, कुतोऽस्य रूपम्। अतनुरेष हुताशनः । तथा हि — अप्रकाशयन् ज्वालावली: संतापं जनयति। अप्रकटयन् धूमपटलमश्रु पातयति । न च तद्भतमेतावति त्रिभुवने, अस्य शरशरव्यां यन्न यातं याति यास्यति वा । को वास्य भ्रश्यति । गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्तया प्रियमुखचन्द्रसहस्राणि, सङ्कटमम्बरतलम् ; लिखन्तीनां दयिताकारान् ,अविस्तीर्णं महीमण्डलम् ; गणयन्तीनां वल्लभगुणान्, अल्पीयसी संख्या ; शृण्वतीनां प्रियकथाम्, अबहुभाषिणी सरस्वती ; ध्यायन्तीनां प्राणसमसमागमशतानि, ह्रसीयान् कालो हृदयस्यापतति ' इति ॥
॥ इति कादम्बरीवार्ताश्रवणम् (भागः 2) ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.