एतदाकर्ण्य च, क्षणं विचिन्त्य, प्रत्यवादीत् — ' पत्रलेखे, यथा कथयसि, तथा जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि, समधिकानि वा, तानि मयि वर्तन्ते । हृदयादव्यतिरिक्तासि । इदानी भवतीमेव पृच्छामि । उपदिश त्वम्, यदत्र मे साम्प्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च, मे गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम् ' इति ॥
एवंवादिनीं भूयस्तामहमेवमोचम् — ' अलमलमिदानीं देवि, किमनेन अकारणमरणानुबन्धेन । अनाराधितप्रसन्नकुसुमशरेण भगवता ते वरो दत्तः । का चात्र गुरुजनवक्तव्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः सङ्कल्पयति, मातेवानुमोदते, पितेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । कति वा कथयामि ते, याः स्वयं वृतवत्यः पतीन् । यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः । तत्प्रसीद । देवि, अलममुना मरणानुबन्धेन । शपे ते पादपङ्कजस्पर्शन । सन्दिश, प्रेषय माम् । यामि, आनयामि देवि, ते हृदयदयितम् ' इति ॥
एवमुक्ते मया प्रीतिद्रवार्द्रया दृष्ट्या पिबन्तीव मां प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजां लज्जामिवावलम्ब्य शनैरवदत् — ' जानामि ते गरीयसी प्रीतिम् । केवलमकठोरशिरीषपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । मन्ये साहसकारिण्यस्ताः, याः स्वयं सन्दिशन्ति समुपसर्पन्ति वा । स्वयं साहसं सन्दिशन्ती बाला जिह्रेमि । किं वा सन्दिशामि ? अतिप्रियोऽसीति, पौनरुक्त्यम् । तवाहं प्रियात्मेति, जडप्रश्नः । त्वयि गरीयाननुराग इति, वेश्यालापः । त्वया विना न जीवामीति, अनुभवविरोधः । अवश्यमागन्तव्यमिति, सौभाग्यगर्वः । स्वयमागच्छामीति, स्त्रीचापलम् । अनन्यरक्तोऽयं परिजन इति, स्वभक्तिनिवेदनलाघवम् । प्रत्याख्यानशङ्कया न संदिशामीति अप्रबुद्धबोधनम् । ज्ञास्यसि मरणेन प्रीतिमिति, असंभाव्यमेव ॥
॥ इति कादम्बरीसंग्रहे पूर्वभागः समाप्तः ॥
॥ इति कादम्बरीवार्ताश्रवणम् (भागः 3) ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.