Loading data... On slow networks this could take a few minutes.
100%
॥ अथ कादम्बरीवार्ताश्रवणम् (भागः 1) ॥
अथ मया विदिताभिप्रायया ' आज्ञापय ' इति विज्ञापिते, निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयात्मप्रतिमामपि लिखितमणिकुट्टिमेन चरणाङ्गष्ठेनापक्रमायेवामृशन्ती, वनदेवताश्रवणशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म किञ्चिदपि लज्जाकलितगद्गदा गदितुम् । केवलं दुःखसहस्रगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विलासोऽपि विलासम् । तथाभूता च ' देवि, किमिदम् ' इति विज्ञापिता मया, प्रमृज्य लोहितायमानोदरे लोचने, वेदिकाकुसुमपालिकाग्रथितकुसुममालाम् अवलम्ब्य, समुन्नतैकभ्रूलता मृत्युमार्गमिवालोकयन्ती, दीर्घमुष्णं च निःश्वसितवती । तद्दुःखकारणमुप्रेक्षमाणया च कथनाय पुनः पुनरनुवध्यमाना मया, व्रीडया नखमुखलिखितकेतकीदला लिखित्वेव वक्तव्यमर्पयन्ती, विवक्षास्फुरिताधरा क्षिततलनिहितनिश्चलनयना सुचिरमतिष्ठत् ॥
क्रमेण च भूयो मन्मुखे निधाय दृष्टिम्, कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम् — ' पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातः, नाम्बा, न महाश्वेता, न मदलेखा, न जीवितम्, यत्र मे भवती । दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतापरहृदयेन । कथमिव मादृशी रजनिकरकिरणावदातं कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जांं परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः प्रवर्तयिष्यति । साहं न सङ्कल्पिता पित्रा । न दत्ता मात्रा । नानुमोदिता गुरुभिः । न किञ्चित् सन्दिशामि । न किंचित्प्रेषयामि । नाकारं दर्शयामि । कातरेवानाथेव बलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय, महतां किमयमाचारः ? किं परिचयस्येदं फलम् ? यदेवम् अभिनवबिसकिसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि। तदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । न हि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ' इत्यभिधाय तूष्णीमभूत् ॥
॥ इति कादम्बरीवार्ताश्रवणम् (भागः 1) ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.