अत्रान्तरे लाञ्छनच्छलेन विडम्बयन्निव शोकानलदग्धमध्यं महाश्वेताहृदयम्, उद्वहन्निव कुमारवधमहापातकम्, उदगात्तारकाराजः । क्रमेण चोद्गते शशाङ्कमण्डले, चन्द्रापीडः सुप्तामालोक्य महाश्वेताम्, पल्लवशयने शनैः शनैः समुपाविशत् । ' अस्यां वेलायां किं नु खलु मामन्तरेण चिन्तयति वैशम्पायनः, किं वा वराकी पत्रलेखा, किं वा राजपुत्रलोकः ' इति चिन्तयन्नेव निद्रां ययौ ॥
अथ क्षीणायां क्षपायाम्, उषसि सन्ध्यामुपास्य शिलातलोपविष्टायां पवित्राण्यघमर्षणानि जपन्त्यां महाश्वेतायाम्, निर्वर्तितप्राभातिकविधौ चन्द्रापीडे, तरलिका षोडशवर्षवयसा सावष्टम्भाकृतिना गन्धर्वदारकेण केयूरकनाम्नानुगम्यमाना प्रत्युषस्येव प्रादुरासीत् । आगत्य च ' कोऽयम् ' इत्युपजातकुतूहला चन्द्रापीडं सुचिरमालोक्य, महाश्वेतायाः समीपमुपसृत्य, कृतप्रणामा सविनयमुपाविशत् । अनन्तरं चातिदूरानतेनोत्तमाङ्गेन प्रणम्य, केयूरकोऽपि महाश्वेतादृष्टिनिसृष्टं नातिसमीपवर्ति शिलातलं भेजे । समुपविष्टश्च तत्र तमदृष्टपूर्वं रूपातिशयं चन्द्रापीडस्य दृष्ट्वा विस्मयमापेदे ॥
परिसमाप्तजपा तु महाश्वेता पप्रच्छ तरलिकाम् — ' किं त्वया दृष्टा प्रियसखी कादम्बरी कुशलिनी । करिष्यति वा तदस्मद्वचनम् ' इति । अथ सा तरलिका विनयावनतमौलिः, ईषदालम्बितकर्णपाशम् अतिमधुरया गिरा व्यजिज्ञपत् — ' भर्तृदारिके, दृष्टा खलु मया
भर्तृदारिका कादम्बरी । सर्वतः कुशलिनी । विज्ञापिता च निखिलं भर्तृदुहितुः सन्देशम् । आकर्ण्य च यत्तया संततमुक्तस्थूलाश्रुबिन्दुवर्षं रुदित्वा प्रतिसंदिष्टम्, तदेष तयैव विसर्जितः, तस्या एव वीणावाहक: केयूरकः कथयिष्यति ' इत्युक्त्वा विरराम । विरतवचसि तस्यां केयूरकोऽब्रवीत् — “ भर्तृदारिके महाश्वेते, देवी कादम्बरी दृढदत्तकण्ठग्रहा त्वां विज्ञापयति — ' यदियमागत्य मामवदत्तरलिका, तत्कथय, किमयं गुरुजनवचनानुरोधः, किमिदं मच्चित्तपरीक्षणम्, किं गृहनिवासापराधनिपुणोपालम्भः, किं प्रेमविच्छेदाभिलाषः, किं भक्तजनपरित्यागोपायः, किं वा प्रकोपः । जानास्येव मे सहजप्रेमनिस्यन्दनिर्भरं हृदयम् । एवमतिनिष्ठुरं संदिशन्ती कथमसि न लज्जिता । तथा मधुरभाषिणी केनासि शिक्षिता वक्तुमप्रियम् । स्वस्थोऽपि तावत्क इव सहृदयः कनीयस्यवसानविरसे कर्मणीदृशे मतिमुपसर्पयेत् । किमुतातिदुःखाभिहतहृदयोऽस्मद्विधो जनः । सुहृदुःखखेदिते हि मनसि कैव सुखाशा, कैव निर्वृतिः, कीदृशा भोगाः, कानि वा हसितानि । येनेदृशीं दशामुपनीता प्रियसखी, कथमतिदारुणं तमहं विषमिवाप्रियकारिणं कामं सकामं कुर्याम् । दिवसकरास्तमयविधुरासु नलिनीषु सहवासपरिचयाच्चक्रवाकयुवतिरपि पतिसमागमसुखानि परित्यजति । किमुत नार्यः । अपि च, यत्र भर्तृविरहविधुरा परिहृतपरपुरुषदर्शना दिवानिशं निवसति प्रियसखी, कथमिव तन्मम हृदयमपरः प्रविशेज्जनः । यत्र च भर्तृविरहविधुरा तीव्रतकर्शिताङ्गी प्रियसखी महत्कृच्छ्मनुभवति, तत्राहमवगणय्यैतत्, कथमात्मसुखार्थिनी पाणिं ग्राहयिष्यामि । कथं वा मम सुखं भविष्यति । त्वत्प्रेम्णा चास्मिन् वस्तुनि मया कुमारिकाजनविरुद्धं स्वातन्त्र्यमालम्ब्य, अङ्गीकृतमयशः, समवधीरितो विनयः, गुरुवचनमतिक्रान्तम्, न गणितो लोकापवादः, वनिताजनस्य सहजमाभरणमुत्सृष्टा लज्जा । सा, कथय, कथमिव पुनरत्र प्रवर्तते । तदयमञ्जलिरुपरचितः, प्रणामोऽयम्, इदं च पादग्रहणम् । अनुगृहाण माम् । वनमितो गतासि मे जीवितेन सह । मा कृथाः स्वप्नेऽपि पुनरिममर्थं मनसि ' इत्यभिधाय तूष्णीमभूत् ” इति ॥
॥ इति केयूरकेण सह तरलिकागमनम्, कादम्बर्याः प्रत्युत्तरम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.