ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत् । उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः, प्रकृतिवल्लभामपि कादम्बरीसकाशात् प्रसादलब्धापरसौभाग्यामिव वल्लभतरताम् उपागताम् उत्थायातिशयदर्शितादरम् आलिलिङ्ग पत्रलेखाम् । मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत् — ' पत्रलेखे, कथय — तत्रभवत्या महाश्वेतायाः संमदलेखाया देव्याः कादम्बर्याश्च कुशलम् ? कुशली वा सकलस्तमालिकाकेयूरकादिः परिजनः?' इति । साब्रवीत् — ' देव, यथाज्ञापयसि, भद्रम् । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी ' इत्येवमुक्तवतीं पत्रलेखामादाय, मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन् कुतूहलमतिप्रीत्या, दूरमुत्सारितपरिजनः प्रविश्य, कस्यचित् पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत् — ' पत्रलेखे, कथय — कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ठ्यः समभवन् ? कीदृश्यो वा कथाः समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गरीयसी प्रीतिः ? ' इत्येवं पृष्टा च व्यजिज्ञपत् — ' देव,दत्तावधानेन श्रूयताम् — ततः खल्वागते देवे, केयूरकेण सह प्रतिनिवृत्याहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना । प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः, नामाक्षरेषु वाणी, प्रीतौ हृदयम्, देव्याः सकलमेव तं दिवसमभवत् । अपराह्णे च मामेवावलम्ब्य, निष्क्रम्य हिमगृहकात्, सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र सुधाधवलां मरकतसोपानमालया प्रमदवनवेदिकाम् अध्यारोहत् । तस्यां च मणिस्थूणावष्टम्भा स्थिता । स्थित्वा च मुहूर्तमिव हृदयेन
सह दीर्घकालमवधार्य, किमपि व्याहर्तुमिच्छन्ती, निश्चलधृततारकेण निस्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् ॥
॥ इति पत्रलेखायाः आगमनम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.