Loading data... On slow networks this could take a few minutes.
100%
॥ अथ चन्द्रापीडमदलेखासंवादः ॥
चन्द्रापीडस्तु सपदि कृतसकलागमनोचितोपचारः, तदवस्थां चित्ररथतनयाम् आलोक्याचिन्तयत् — ' अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु, पृच्छामि तावदेनां निपुणालापेन ' इति । प्रकाशमब्रवीत् — ' देवि, जानामि, कामरतिं निमित्तीकृत्य प्रवृत्तोऽयमविचलसंतापतन्त्रो व्याधिः । सुतनु, सत्यम्, न तथा त्वामेष व्यथयति, यथास्मान् । इच्छामि देहदानेनापि स्वस्थामत्रभवती कर्तुम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषु पीडया पतितामवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते ते भुजलते । गाढसंतापया च दृष्टया वहसि स्थलकमलिनीमिव रक्ततासरसाम् । दुःखितायां च त्वयि परिजनेऽपि चानवरतकृताश्रुबिन्दुपातेन वर्तते मुक्ताभरणता । गृहाण स्वयं वरार्हाणि मङ्गलप्रसाधनानि । सकुसुमशिलीमखा हि शोभते नवा लता ' इति ॥
अथ कादम्बरी बालतया स्वभावमुग्धापि, कन्दर्पेणोपदिष्टयेव प्रज्ञया तमशेषमस्याव्यक्तव्याहारसूचितमर्थं मनसा जग्राह । मनोरथानां तु तावतीं भूमिमसंभावयन्ती, शालीनतां चावलम्बमाना, तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं स्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत् — ' कुमार, किं कथयामि । दारुणोऽयमकथनीयः खलु संतापः । अपि च, कुमारभावोपेतायाः किमिवास्याः, यन्न सन्तापाय । तथा हि — मृणालिन्याः शिशिरकिसलयमपि हुताशनायते । ज्योत्स्नाप्यातपायते । ननु किसलयतालवृन्तवातैर्मनसि जायमानं किं न पश्यसि खेदम् । वीरत्वमेव प्राणसंधारणहेतुरस्याः ' इति । कादम्बरी तु हृदयेन तमेव मदलेखालापमस्य प्रत्युत्तरीचकार । चन्द्रापीडोऽप्युभयथाघटमानार्थतया सन्देहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिर्महान्तं कालं स्थित्वा, तथैव महता यत्नेन मोचयित्वात्मानम्, स्कन्धावारगमनाय कादम्बरीभवनान्निर्ययौ ॥
निर्गतं च तं तुरङ्गममारुरुक्षन्तं पश्चादागत्य केयूरकोऽभिहितवान् — ' देव, मदलेखा विज्ञापयति — ' देवी कादम्बरी प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्यमानामिच्छति, पश्चाद्यास्यति ' इति । श्रुत्वा देवः प्रमाणम् ' इत्याकर्ण्य चन्द्रापीडः ' केयूरक, धन्या स्पृहणीया च पत्रलेखा, यामेवमनुबध्नाति दुर्लभो देवीप्रसादः । प्रवेश्यताम् ' इत्यभिधाय, पुनः स्कन्धावारमेवाजगाम । प्रविशन्नेव पितुः समीपादागतमभिज्ञाततरम् आलेखहारकमद्राक्षीत् । धृततुरङ्गमश्च प्रीतिविस्फारितेन चक्षुषा दूरादेवापृच्छत् — ' अङ्ग, कच्चित् कुशली तातः सह सर्वेण परिजनेन, अम्बा च सर्वान्तःपुरैः ? ' इति ॥
कादम्बरीसंग्रहः - कादम्बरी - 22
॥ इति चन्द्रापीडमदलेखासंवादः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.