Loading data... On slow networks this could take a few minutes.
100%
॥ अथ कादम्बरीहिमगृहम्, मदनार्ता कादम्बरी ॥
चन्द्रापीडस्तदाकर्ण्य जिगमिषुः ' अश्वोऽश्वः ' इति वदन्, भवनान्निर्ययौ । आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे स्थापयित्वा वैशम्पायनम्, अशेषं परिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्यमानः, हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार । अवतीर्य च द्वारपालार्पिततुरंगः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखयानुगम्यमानः प्रविश्य, — ' क्व देवी कादम्बरी तिष्ठति ' इति संमुखागतमन्यतमं वर्षवरमप्राक्षीत् । कृतप्रणामेन च तेन ' देव, मत्तमयूरस्य क्रीडापर्वतकस्याधस्तात् कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते ' इत्यावेदिते, केयूरकेणोपदिश्यमानवर्त्मा गत्वा किंचिदध्वानम्, निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । ततश्च तत्र बहुविधान् शिशिरोपचारापकरणकल्पनाव्यापारान् परिजनेन कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागम्, हृदयमिव हिमवतः, जलक्रीडागृहमिव प्रचेतसः, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, सङ्केतसदनमिव सर्वप्रावृषाम्, आससाद । क्रमेण च तत्रान्तर्बहिश्चातिबहलेन पिण्डहार्येणेवोपलिप्यमानो अतिशीतलस्पर्शनामन्यतात्मनो मनश्चन्द्रमयम्, कुमुदमयानीन्द्रियाणि, ज्योत्स्नामयान्यङ्गानि, मृणालिकामयीं धियम् ॥
एवंविधस्य च तस्यैकदेशे सखीकदम्बकपरिवृताम्, कुल्याभ्रमिभ्रमितेन कपूररसस्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, अवतंसमधुकररवदहनदग्धमिव श्रोत्रमपाङ्गनिर्गतेनाश्रुस्रोतसा सिञ्चन्तीम्, मुहुर्मुहुर्भुजलतया तुषारशिलासालभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम्, मुहुश्चरणारविन्देन चन्दनपङ्कप्रतियातनामास्पृशन्तीम्, कुसुमचापलेखामिव मदनारोपितगुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीं कादम्बरीं व्यलोकयत् ॥
अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमत्तरलतारकेण चक्षुषा — ' कथय, किं सत्यमागतः ? दृष्टस्त्वया ? कियत्यध्वनि ? क्वासौ ' इति प्रतिमुखं निक्षिप्तेनानक्षरं पप्रच्छ । प्रवर्धमानधवलिम्ना चक्षुषा दृष्ट्वा च संमुखमापतन्तं तम्, दूरादेव वरारोहा संभ्रमच्युतोत्तरीयका, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना, स्रस्तकेशकलापसंयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेण समभ्युक्ष्येवात्मानमर्पयन्ती, चक्षुषा क्षरन्ती शिशिरमानन्दजलम्, किञ्चिदधोमुखी, तत्क्षणमपाङ्गभागपुञ्जिततारकया तन्मुखलग्नयेव दीर्घया दृष्टयाकृष्यमाणा, कुसुमशयनादुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायां च तस्यां पुनस्तस्मिन्नेव कुसुमशयने समुपविष्टायाम्, प्रतीहार्या समुपनीतां जाम्बूनदमयीमासन्दिकां पादेनैवोत्सार्य, क्षितावेवोपाविशत् ॥
अथ कयूरकः — ' देवि, देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनी ' इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्टा ताम्, ' अहो मानुषीषु पक्षपातः प्रजापतेः ' इति चिन्तयांबभूव । कृतप्रणामां च तां सादरम् ' एह्येहि ' इत्यभिधाय आत्मनः समीपे सकुतूहलं परिजनेन दृश्यमानां पृष्ठतः समुपावेशयत् । दर्शनादेवोपारुढप्रीत्यतिशया च मुहुर्मुहुरेनां सोपग्रहं करकिसलयेन पस्पर्श ॥
॥ इति कादम्बरीहिमगृहम्, मदनार्ता कादम्बरी ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.