अथासावुपसृत्य प्रणामानन्तरम् ' देव, यथाज्ञापयसि ' इत्यभिधाय, लेखद्वितयमर्पयांबभूव । युवराजस्तु शिरसि कृत्वा, स्वयमेव च तदुन्मुच्य, क्रमशः पपाठ — ' स्वस्ति। उज्जयिनीतः परममाहेश्वरो महाराजाधिराजो देवस्तारापीडः सर्वसंपदामायतनं चन्द्रापीडमुत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः । किन्तु कियानपि कालो भवतो दृष्टस्य गतः । बलवदुत्कण्ठितं नो हृदयम् । देवी च सहान्त:पुरैर्म्लानिमुपनीता । अतो लेखवाचनविरतिरेव प्रयाणकालतां नेतव्या ' इति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयम् अस्मादभिन्नार्थमेवादर्शयत् ॥
अथ ' यथाज्ञापयति तातः ' इत्युक्त्वा, तथैव च तुरगाधिरूढः प्रयाणपटहमवादयत् । समीपे स्थितं च महताश्वीयेन परिवृतं महाबलाधिकृतं वलाहकपुत्रं मेघनादनामानमादिदेश — “भवता पत्रलेखया सहागन्तव्यम् । नियतं च केयूरकस्तामादायैतावतीं भूमिमागमिष्यति । तन्मुखेन च विज्ञाप्या प्रणम्य देवी कादम्बरी — ' नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया दुर्ग्रहा प्रकतिर्मर्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निकारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपटकूटजालिकताम् । प्रापिता भक्तिरलीककाकुकरणकुशलताम् । पातितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम् । प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा । अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिता व्यर्थाः प्रसादामृतवृष्टयो महताम् । न खलु तथा देवी प्रति प्रबललज्जातिभारमन्थरं मे हृदयम्, यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपणवर्णितास्मद्गणसंभाराम् अस्थानपक्षपातिनीम् असकृदुपालप्स्यते देवी । तत्किं करोमि । गरीयसी गुरोराज्ञा प्रभवति देहमात्रकस्य । हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं देव्याः । सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथाकीर्तनेषु स्मर्तव्यः खलु चन्द्रापीडचण्डालः । मा चैवं मंस्थाः, यथा — जीवन्पुनर्देवीचरणारविन्दवन्दनानन्दमननुभूय स्थास्यति चन्द्रापीडः' इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजनः । रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः ” इति ॥
एवमादिश्य तम्, ' सुहृदादिसाधनमक्लेशयता शनैः शनैर्गन्तव्यम् ' इत्युक्त्वा वैशम्पायनं स्कन्धावारभरे न्ययुङ्क्त । स्वयमपि च तथारूढ एव कान्तकुन्तलतावनवाहिना तरुणतुरगप्रायेणाश्वसैन्येनानुगम्यमानः, तमेव लेखहारकं पर्याणलग्नम् अभिनवकादम्बरीवियोगशून्येनापि हृदयेनोज्जयिनीवार्तां पृच्छन् प्रतस्थे ॥
क्रमेण च गजपतिपातितपादपपरिहारवक्रीकृतमार्गया, जनजनिततृणपर्णकाष्ठकोटिकूटप्रकटितवीरपुरुषघातस्थानया, महापादपमूलोत्कीर्णकान्तारदुर्गया, अध्वगोत्खातवालुकाकूपकोपलभ्यमानकलुषस्वल्पसलिलाभिः शुष्कगिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुटकुलकौलेयकरटितानुमीयमानगुल्मगहनग्रामटिकया शून्यया दिवसमटव्या गत्वा, परिणते रविबिम्बे,बिम्बारुणातपविसरे वासरे,
॥ इति मेघनादाय सन्देशकथनम्, शून्याटवीवर्णना ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.