॥ अथ चन्द्रापीडकेयूरकसंवादः ॥
अथ चन्द्रापीड: 'महाश्वेताचरणाराधनतपःफलमिदम्, यदेवं परिजनेऽप्यनुस्मरणादिकं प्रसादभारमतिमहान्तमारोपयति देवी कादम्बरी ' इत्युक्त्वा, तत्सर्वं शिरसि कृत्वा, स्वयमेव जग्राह । तेन च स्पर्शवता ह्लादिना सुरभिणा विलेपनेन विलिप्य, तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च, मुहूर्तादिवोत्थाय, वामबाहुना स्कन्धदेशे समवलम्ब्य केयूरकम्, शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव, तस्मै स्वयमेव शष्पकबलमवकीर्य, वल्लभतुरङ्गमन्दुराभिमुखः प्रतस्थे । गच्छंश्चोभयतः किंचित्किंचिदिव तिर्यग्वलितवदनः परिजनं विलोकयांबभूव ॥
अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्सारिते परिजने, केयूरकृद्वितीय एव मन्दुरां प्रविवेश । उत्सारणभयसंभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधस्य पृष्ठावगुण्ठनपटं किञ्चिदेकपार्श्वगलितं समीकुर्वन्, उत्सारयंश्च कूणितनेत्रत्रिभागस्य दृष्टिनिरोधिनीं कुङ्कुमकपिलां केसरसटाम्, खुरधारणीविन्यस्तचरणः, लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच — ' केयूरक, कथय — मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले ? केन वा व्यापारेण वासरमातिनीतवती गन्धर्वराजपुत्री ? किं वाकरोन्महाश्वेता ? किमभाषत वा मदलेखा ? के वाभवन्नालापाः परिजनस्य ? भवतो वा को व्यापार आसीत् ? आसीद्वा काचिदस्मदाश्रयिणी कथा ? ' । केयूरकस्तु सर्वमाचचक्षे — ' देव, श्रूयताम् — निर्गते त्वयि देवी कादम्बरी सपरिजना सौधशिखरमारुह्य, तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे, मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दिगन्तं पश्यन्ती, सुचिरं तत्रैव स्थितवती । तस्माच्च कथमपि सखेदमवतीर्य क्षणमिवास्थानमण्डपे स्थित्वा, उत्थाय तमेव क्रीडापर्वतकमागतवती, यत्र स्थितवान् देवः । तमुपेत्य च — ' देवेनात्र शिलातले स्थितम्, अत्र स्नातम्, अत्र भगवानर्चितः शूलपाणिः, अत्र भुक्तम् ,अत्र सुप्तम् ' इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती, क्षपितवती दिवसम् । दिवसावसाने च कथमपि महाश्वेता प्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिवेश्मनि आहारम् अकरोत् । अस्तमुपगते च भगवति रवौ, उदिते चन्द्रमसि, तत्रैव कञ्चित्कालं स्थित्वा, करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती, मुकुलितेक्षणा क्षणमात्रं स्थित्वा, उत्थाय कृच्छ्रादुत्क्षिपन्ती पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रयष्टिश्च ततः प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना, केनाप्याधिना मङ्गलप्रदीपैः कुमदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उषसि च मामाहूय देवस्य वार्ताव्यतिकरोपलम्भाय सोपालम्भमादिष्टवती ' ॥
॥ इति चन्द्रापीडकेयूरकसंवादः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.