॥ अथ कादम्बरीजन्मादिवर्णना ॥
अत्रान्तरे च श्रुतमहाश्वेतावृत्तान्तोपजातशोक इव समुत्सृष्टदिवसव्यापारो रविरपि भगवानधोमुखतामयासीत् । अथ क्षीणे दिवसे, महाश्वेता मन्दं मन्दमुत्थाय, भगवतीमुपास्य पश्चिमां सन्ध्याम्, कमण्डलुजलेन प्रक्षालितचरणा, वल्कलशयनीये सखेदमुष्णं च निःश्वस्य निषसाद । चन्द्रापीडोऽप्युत्थाय कृतसन्ध्याप्रणामः, तसिन्द्वितीये शिलातले मृदुभिर्लतापल्लवैः शय्यामकल्पयत् । उपविष्टश्च तस्याम्, पुनःपुनस्तमेव मनसा महाश्वेतावृत्तान्तमभावयत् । पुन: पप्रच्छ चैनाम् — ' भगवति, सा तव परिचारिका वनवासव्यसनमित्रं दुःखसब्रह्मचारिणी तरलिका क्व गता ' इति ॥
अथ साकथयत् — “ महाभाग, यत्तन्मया कथितममृतसंभवमप्सरसां कुलम्, तस्मान्मदिरेति नाम्ना मदिरायतेक्षणा कन्यकाभूत् । तस्याश्चासौ देवश्चित्ररथः पाणिमग्रहीत् । तयोश्च दुहितृरत्नमुदपादि कादम्बरीति नाम्ना । सा च मे जन्मनः प्रभृति एकासनशयनपानाशना परं प्रेमस्थानमखिलविस्रम्भधाम द्वितीयमिव हृदयं बालमित्रम् । एकत्र तया मया च नृत्यगीतादिकलासु कृताः परिचयाः । शिशुजनोचिताभिश्च क्रीडाभिरनियन्त्रणनिर्भरमपनीतो बालभावः । सा चामुनैव मदीयेन हतवृत्तान्तेन समुपजातशोका निश्चयमकार्षीत् — ' नाहं कथंचिदपि सशोकायां महाश्वेतायाम्, आत्मनः पाणिं ग्राहयिष्यामि ' इति । सखीजनस्य पुरतः सशपथमभिहितवती च — ' यदि कथमपि मामनिच्छन्तीमपि बलात्तातः कदाचित्कस्मैचिद्दातुमिच्छति, तदाहमनशनेन वा हुताशनेन वा रज्ज्वा वा विषेण वा नियतमात्मानमुत्स्रक्ष्यामि ' इति । सर्वं च तदात्मदुहितुर्निश्चलभाषितं कर्णपरंपरया गन्धर्वराजश्चित्ररथः स्वयमशृणोत् । गच्छति च काले, समुपारूढनिर्भरयौवनाम् आलोक्य स ताम्, बलवदुपतापपरवशः क्षणमपि न धृतिमलभत । एकापत्यतया च अतिप्रियतया च न शक्तः किंचिदपि तामभिधातुम्, अपश्यंश्चान्यदुपायान्तरम्, ' इदमत्र प्राप्तकालम् ' इति मत्वा, तया महादेव्या मदिरया सहावधार्य, क्षीरोदनामानं कञ्चुकिनम् ' वत्से महाश्वेते, त्वद्वयतिरेकेणैव दग्धहृदयानाम् इदमपरम् अस्माकमुपस्थितम् । इदानीं तु कादम्बरीमनुनेतुं त्वं शरणम् ' इति संदिश्य मत्समीपमद्यैव प्रत्युषसि प्रेषितवान् । ततो मया गुरुवचनगौरवेण सखीप्रेम्णा च क्षीरोदेन सार्धं सा तरलिका ' सखि कादम्बरि, किं दुखितमपि जनमतितरां दुःखयसि । जीवन्तीमिच्छसि चेन्माम्, तत्कुरु गुरुवचनमवितथम् ' इति सन्दिश्य विसर्जिता । नातिचिरं गतायां च तस्याम्, अनन्तरमेवेमां भूमिमनुप्राप्तो महाभागः ” इत्यभिधाय तूष्णीमभवत् ॥
॥ इति कादम्बरीजन्मादिवर्णना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.