Loading data... On slow networks this could take a few minutes.
100%
॥ अथ कादम्बरीप्रेषितोपहारः, महाश्वेतासन्देशः ॥
अपरेद्युश्च समुत्थिते भगवति रवौ, आस्थानमण्डपगतः, तद्गतेनैव मनसा, सहसैव प्रतीहारेण सह प्रविशन्तं केयूरकं ददर्श । दूरादेव च क्षितितलस्पर्शिना मौलिना कृतपादपतनम् ' एोह्येहि ' इत्युक्त्वा प्रथममपाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, पश्चाद्भुजाभ्यां प्रधावितप्रथितं तमालिलिङ्ग गाढम् । उपावेशयच्चैनमात्मनः समीप एव । पप्रच्छ च — ' केयूरक, कथय, कुशलिनी देवी ससखीजना कादम्बरी, भगवती महाश्वेता च ? ' इति । असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरमवोचत् — ' अद्य कुशलिनी, यामेवं देवः पृच्छति ' इत्यभिधाय, अपनीयार्द्रवस्त्रकर्पटावगुण्ठितं बिससूत्रसंयतमुखम् आर्द्रचन्दनपङ्कन्यस्तबालमृणालवलयमुद्रं नलिनीपत्रपुटम् अदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथा — मरकतहरिन्ति व्यपनीतत्वञ्चि चारुमञ्जरीभाञ्जि क्षीरीणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलं च कर्पूरम्, अतिबहुलमृगमदामोदमनोहरं च मलयजविलेपनम् अब्रवीच्च — ' चूडामणिचुम्बिनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, नमस्कारेण च मदलेखा, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिका । सन्दिष्टं च तव महाश्वेतया — ' धन्याः खलु ते, येषां न गतोऽसि चक्षुषोर्विषयम् । तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ताः । स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायातीतदिवसाय । त्वया वियुक्तं विनिवृत्तमहोत्सवालसमिव वर्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागाम् । तथाप्यकारणपक्षपातिनं भवन्तं द्रष्टुमिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च, बलवदस्वस्थशरीरा कादम्बरी । स्मरति च स्मराननं स्मरकल्पं त्वाम् । अतः पुनरागमनगौरवेणार्हसीमां गुणवदभिमानिनीं कर्तुम् । उदारजनादरो हि बहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विधजनपरिचयकदर्थना कुमारेण । भवत्सुजनतैव जनयत्यनुचितं सन्देशप्रागल्भ्यम् ' इत्युक्त्वा, ' एष देवस्य शयनीये विस्मृतः शेषो हारः प्रहितः ' इत्युत्तरीयपटान्तसंयतं विमुच्य चामरग्राहिण्याः करे समर्पितवान् ॥
॥ इति कादम्बरीप्रेषितोपहारः, महाश्वेतासन्देशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.