॥ अथ चन्द्रपीडस्य स्वभवनागमनम् ॥
अथ कादम्बरी ' सखि, स्वाधीनोऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरोत्मा । क इवात्रानुरोधः ' इत्यभिधाय, गन्धर्वकुमारानाहूय ' प्रापयत कुमारं स्वां भूमिम् ' इत्यादिदेश । चन्द्रापीडोऽप्युत्थाय प्रणम्य प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः, ' देवि, किं ब्रवीमि । बहुभाषिणो न श्रद्दधाति लोकः । स्मर्तव्योऽस्मि परिजनकथासु ' इत्यभिधाय, कन्यकान्तःपुरान्निर्जगाम । कादम्बरीवर्जम् अशेषकन्यकाजनो गुणगौरवाकृष्टः परवश इव तं व्रजन्तमा बहिस्तोरणादनुवव्राज । निवृत्ते च कन्यकाजने, केयूरकेणोपनीतं वाजिनमारुह्य, गन्धर्वकुमारकैस्तैरनुगम्यमानः, हेमकूटात् प्रवृत्तो गन्तुम् । गच्छतश्चास्य चित्ररथतनया न केवलमन्तः, बहिरपि सैव सर्वाशानिबन्धनमासीत् । क्रमेण च प्राप्य महाश्वेताश्रमम्, अच्छोदसरस्तीरे संनिविष्टम् इन्द्रायुधखुरपुटानुसारेणैव आगतम् आत्मस्कन्धावारम् अपश्यत् । निवर्तिताशेषगन्धर्वकुमारश्च, सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः, स्वभवनं विवेश । संमानिताशेषराजलोकश्च वैशम्पायनेन पत्रलेखया च सह ' एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकः ' इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादम्बरीरूपदर्शनविद्विष्टेव नास्य पुरेव प्रीतिमकरोद्राजलक्ष्मीः । तामेव च धवलेक्षणाम् आबद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एव सा जगाम रात्रिः ॥
॥ इति चन्द्रपीडस्य स्वभवनागमनम् ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.