॥ अथ मदलेखाप्रश्नाः, चन्द्रपीडस्य गमनाय अनुमतिप्रार्थना ॥
स्थित्वा च कञ्चित्कालं कृतप्रस्तावा, ' कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग्भारतं वर्षम्, रमणीयो वा मर्त्यलोकः ' इत्यशेषं पप्रच्छ । एवंविधाभिश्च कथाभिः सुचिरं स्थित्वोत्थाय, कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनं च, शयनसौधशिखरमारुरोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलञ्चकार । चन्द्रापीडोऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगम्भीरतां च कादम्बर्याः, निष्कारणवत्सलतां च महाश्वेतायाः, सुजनतां च मदलेखायाः, महानुभावतां च परिजनस्य, अतिसमृद्धिं च गन्धर्वराजलोकस्य, रम्यतां च किंपुरुषदेशस्य मनसा भावयन्, केयूरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् ॥
अथ समुद्गते सवितरि, शिलातलादुत्थाय चन्द्रापीडः प्रक्षालितमुखकमलः कृतसन्ध्यानमस्कृतिः, गृहीतताम्बूलः ' केयूरक, विलोकय, देवी कादम्बरी प्रबुद्धा न वा । क्व वा तिष्ठति ' इत्यवोचत् । गतप्रतिनिवृत्तेन च तेन ' देव, मन्दरप्रासादस्य अधस्तादङ्गणसौधवेदिकायां महाश्वेतया सहावतिष्ठत ' इत्यावेदिते, गन्धर्वराजतनयाम् आलोकयितुमाजगाम । ददर्श च जटाजिनमौञ्जीवल्कलाषाढधारिणीभिः वर्णिचिह्नाभिस्तापसीभिः उपास्यमानाम् अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैः अभ्युत्थानैः आसन्नवेत्रासनदानैश्च संमानयन्ती महाश्वेताम्, पृष्टतश्च समुपविष्टेन किन्नरमिथुनेन मधुकरमधुराभ्यां वंशाभ्यां दत्ते ताने, कलगिरा गायन्त्या नारददुहित्रा पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानां कादम्बरीम् । समुपसृत्य कृतनमस्कारः, तस्यामेव सुधावेदिकायां विन्यस्तमासनं भेजे । स्थित्वा च कञ्चित्कालम्, महाश्वेताया वदनं विलोक्य, स्फुरितकपोलोदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभिप्राया कादम्बरीमब्रवीत् — ' सखि, भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैः आर्द्रीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः । पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च, युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं कमलिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिरा प्रलयात् । अतोऽभ्यनुजानातु भवती ' इति ॥
॥ इति मदलेखाप्रश्नाः, चन्द्रपीडस्य गमनाय अनुमतिप्रार्थना ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.