अथ शनैःशनैरदर्शनमुपगते भगवति गभस्तिमालिनि, जातायां चादर्शनक्षमायां वेलायाम्, सौधशिखरादवततार कादम्बरी, क्रीडापर्वतकनितम्बाच्च चन्द्रापीडः । उच्छ्रिते च ततो न चिरादिव कुसुमायुधाधिराज्यैकातपत्रे श्वेतभानौ, चन्द्रापीडो गृहकुमुदिन्यास्तीरे हरिचन्दनरसैः प्रक्षालितं कादम्बरीपरिजनोपदिष्टं मुक्ताशिलापट्टे
चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्यागत्याकथयत् केयूरकः — ' देवी कादम्बरी देवं द्रष्टुमागता ' इति ॥
अथ चन्द्रापीडः ससंभ्रममुत्थाय, आगच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिह्नाम् इतरामिवैकावलीमात्राभरणाम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च प्रीतिपेशलतां दर्शयन्ती प्राकृतेव परिजनोचिते भूतले सा समुपाविशत् । चन्द्रापीडोऽपि ' कुमार, अध्यास्यतां शिलातलमेव ' इत्यसकृदनुबध्यमानोऽपि मदलेखया भूमिमेवाभजत । सर्वासु चासीनासु मुहूर्तमिव स्थित्वा, वक्तमुपचक्रमे चन्द्रापीडः — “ देवि, दृष्टिपातमात्रप्रीते दासजने संभाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः । किमुतैतावतोऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपोऽनुग्रहातिरेकः । अतिसरलता तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजनेऽप्येवम् अनुरुध्यते । प्रायेण मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनस्ते, यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः । परोपकारोपकरणं शरीरम् । तृणलवलघु च जीवितम् । अपत्रपे त्वत्प्रतिपत्तिभिः उपायनीकर्तुम् एवमागतायास्ते । वयमेते, शरीरमिदम्, एतज्जीवितम्, एतानीन्द्रियाणि ; एतेषामन्यतरदारोपय परिग्रहेण गरीयस्त्वम् ” इति । अथैवंवादिनोऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत् — ' कुमार, भवतु, अतियन्त्रणया खिद्यते खलु सखी कादम्बरी। किमर्थं चैवमुच्यते । सर्वमिदमन्तरेणापि वचनमनया परिगृहीतम् । किं पुनरमुनोपचारफल्गुना वचसा संदेहदोलामारोप्यते ' इति ॥
॥ इति कादम्बर्या सह चन्द्रापीडालापः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.