कादम्बरी तु तं दृष्ट्वा, ' चिरयति ' इति महाश्वेतायाः किल वर्त्मावलोकयितुं विमुच्य तं गवाक्षम्, अनङ्गाक्षिप्तचित्ता सौधस्योपरितनं तलं कैलासशिखरमिव गौर्यारुरोह । तत्र च विरलपरिजना, सकलशशिमण्डलपाण्डुरेणातपत्रेण हेमदण्डेन निवार्यमाणातपा, चतुर्भिर्वालव्यजनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, मुहुश्चामरशिखां समासज्य, मुहुश्छत्रदण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदलेखां सखीं परिष्वज्य, मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेणावलोक्य, मुहुर्निश्चलकरविधृताम् अधरपल्लवे वीटिकां विनिवेश्य, मुहुः उद्गीर्णोत्पलप्रहारपलायमानपरिजनानुसरणदत्तकतिपयपदा, विहस्य तं विलोकयन्ती, तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य च प्रतीहार्या निवेदितमहाश्वेताप्रत्यागमना, तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । चन्द्रापीडोऽपि तस्मादवतीर्य, प्रथमविसर्जितेनैव कादम्बरीपरिजनेन निर्वर्तितस्नानविधिः, निरुपहतशिलार्चिताभिमतदैवतः, क्रीडापर्वतक एव सर्वमाहारादिकमहःकर्म चक्रे ॥
क्रमेण च कृताहारः, क्रीडापर्वतकप्राग्भागभाजि मनोहारिणि मरकतशिलातले समुपविष्टः, दृष्टवान् सहसैवातिबहुलधाम्ना धवलेनालोकेन विलिप्यमानमम्बरतलम् ॥
कुतूहलाच्चालोकानुसारप्रहितचक्षुः, अद्राक्षीत् अनल्पकन्यकाकदम्बपरिवृताम्, ध्रियमाणधवलातपत्राम्, उद्धूयमानचामरद्वयाम्, कादम्बरीप्रतीहार्या वामपाणिना वेत्रलतागर्भेणार्द्रवस्त्रशकलावच्छन्नमुखं चन्दनानुलेपनसनाथं नालिकेरसमुद्गकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निश्वासहार्ये निर्मोकशुचिनी धौतकल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठितकरतलया च तमालिकया अनुगम्यमानामागच्छन्तीं मदलेखाम् ; तस्याश्च समीपे तरलिकाम् ; तया च सितांशुकोपच्छदे पटलके गृहीतम्, सहभुवमिव चन्द्रमसः, हासमिव श्रियः, प्रतिमातारागणमिव जलनिधिजलादुद्धृतम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम्, शरच्छशिनमिव घनमुक्तांशुनिवहधवलितदिङ्मुखम्, प्रभावर्षिणमतितारं हारम् ॥
॥ इति चन्द्रापीडाय उपहारप्रेषणम् ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.