चन्द्रापीडोऽपि प्रविश्य मणिगृहम्, शिलातलास्तीर्णायाम् उभयत उपर्युपरि निर्देशितबहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गे गृहीतचरणयुगलः, ताभिर्यथादिष्टेषु भूमिभागेषूपविष्टाभिः कन्यकाभिः परिवृतः, दोलायमानेन चेतसा चिन्तां विवेश — ' किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयहारिणः । आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना मयि नियुक्ताः । येन मां सास्त्रेण सरागेण कूणितत्रिभागेण चक्षुषा तिर्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । पुनश्चाचिन्तयत् — ' प्रायेण मानुष्यकसुलभा लघुता मिथ्यासङ्कल्पसहस्रैरेवं मां विप्रलभते । लुप्तविवेको यौवनमदो मदयति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं महत्पश्यति । स्नेहलवोऽपि वारिणेव । यौवनमदेन दूरं विस्तार्यते । स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । निपुणमन्मथगृहीता चित्रवर्तिकेव तरुणचित्तवृत्तिर्न किञ्चिन्नालिखति । संजातरूपाभिमाना कुलटेवात्मसंभावना न क्वचिन्नात्मानमर्पयति । स्वप्न इवाननुभूतमपि मनोरथो दर्शयति । इन्द्रजालपिच्छिकेव असंभाव्यमपि प्रत्याशा पुरः स्थापयति । ' भूयश्च चिन्तितवान् — ' किमनेन वृथैव मनसा खेदितेन । यदि सत्यमेवेयं धवलेक्षणा मय्येवं जातचित्तवृत्तिः, तदा न चिरात्स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति । स एवास्य संशयस्य च्छेत्ता भविष्यति ' इत्यवधार्योत्थायोपविश्य च, ताभिः कन्यकाभिः सहाक्षैर्गेयैश्च विपञ्चीवाद्यैश्च स्वरसंदेहविवादैश्च सुभाषितगोष्ठीभिश्चान्यैश्च तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाञ्चक्रे । मुहूर्तं च स्थित्वा निर्गम्योपवनालोकनकुतूहलाक्षिप्तचित्तः, क्रीडापर्वतकशिखरमारुरोह ॥
॥ इति चन्द्रापीडस्य उत्कण्ठा ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.