Loading data... On slow networks this could take a few minutes.
100%
॥ अथ हारप्रदानसमये मदलेखायाः उक्तिः ॥
दृष्ट्वा चायमस्य, चन्द्रापीडः, चन्द्रातपद्युतिमुषो धवलिम्नः कारणमिति मनसा निश्चित्य, दूरादेव प्रत्युत्थानादिना समुचितेनोपचारक्रमेण मदलेखामापतन्तीं प्रतिजग्राह । सा तु तस्मिन्नेव मरकतग्रावणि मुहूर्तमुपविश्य, स्वयमुत्थाय, तेन चन्दनाङ्गरागेणानुलिप्य, ते च द्वे दुकूले परिधाप्य, तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा, तं हारमादाय, चन्द्रापीडमुवाच — ' कुमार, तवेयमपहस्तिताहंकारकान्ता पेशलता प्रीतिपरवशं जनं किमिव न कारयति । प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी । अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वम् अध्यारोपयसि । एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति । कं वा न समाश्वासयन्त्यमी स्वभावसुकुमारवृत्तयो भवद्गुणाः । त्वन्मूर्तिरेवात्रोपालम्भमर्हति, या प्रथमदर्शन एव विस्रम्भमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमवानुचितमिवाभाति । तथा हि — संभाषणमप्यधःकरणमिवापतति । आदरोऽपि प्रभुताभिमानमिवानुमापयति । स्तुतिरप्यात्मोत्सेकमिव सूचयति । उपचारोऽपि चपलतामिव प्रकाशयति । प्रीतिरप्यनात्मज्ञतामिव ज्ञापयति । विज्ञापनापि प्रागल्भ्यमिव ज्ञायते । सेवापि चापलमिव दृश्यते । दानमपि परिभव इव भवति । अपि च, स्वयंगृहीतहृदयाय किं दीयते । जीवितेश्वराय किं प्रतिपाद्यते। प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया । दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रणयितां चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्या हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः । भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते । दत्त्वात्मानमपि वञ्चिता न भवति । जीवितमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती महत्ता सताम् ।
॥ इति हारप्रदानसमये मदलेखायाः उक्तिः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.